________________
नवमोऽध्यायः।
www.mmmmmmmmm
उपतिष्ठते आयाति । किं तत् ? श्रुतम् । क ? प्रेत्य भवान्तरे । कथं कृत्वा ? अनूनं परिपूर्णम् । नूनं वा निश्चितम् । कथंभूतमपि ? विस्मृतमपि । कस्मात् ? प्रमादादनवधानात् । किंविशिष्टं सत् ? अधीतं पठि. तम् । केन ? विनयतो विनयेन। न केवलम् । आवहत्यपि करोति च श्रुतं विनयतोधीतं कर्तृ । किं तत् ? केवलमसहायज्ञानम् । उक्तं च
विणएण सुदमधीदं जदि वि पमादेण होइ विस्सरिदं ।
तमुवहादि परभवे केवलणाणं च आवहदि ॥ तत्वविबोधादिसाधनं विज्ञानं जिनशासने एवास्तीत्युपदिशतितत्वबोधमनोरोधश्रेयोरागात्मशुद्धयः। मैत्रीद्योतश्च येन स्युस्तज्ज्ञानं जिनशासने ॥६॥ तज्ज्ञानमस्ति । जानाति, ज्ञायतेनेन, ज्ञातिमात्रं वा ज्ञानम् । क? जिनशासने सर्वमनेकान्तात्मकमते, न सर्वथैकान्तवादिमते। जिनानां वीतरागसर्वज्ञानां शासनं शिष्टिर्मतं जिनशासनं तस्मिन् । किं तदित्याह-येन स्युर्भवेयुः । के ? तत्त्वबोधादयः पञ्च षड्वार्थाः । तत्त्वस्य हेयस्योपादेयस्यो. पेक्षणीयस्य च बोधो हेयस्य हेयत्वेनोपादेयस्योपादेयत्वेनोपेक्षणीयस्य चोपेक्षणीयत्वेन प्रतिपत्तिः । उक्तं च
इतीदं जीवतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते।
शेषतत्त्वैः समं षद्भिः स हि निर्वाणभाग् भवेत् ॥ तथा मनसश्चित्तस्य रोधो निवारणम् "यद्यदैव मनसि स्थितं भवेत् तत्तदेव सहसा परित्यजेत् ।" इत्येवंलक्षणो निग्रहोपायो मनोरोधः । तथा श्रेयसि चारित्रे रागोनुरागो लयहेतुः श्रद्धानं श्रेयोरागः । तथात्मनो 'यत्राहमित्यनुपचरितः प्रत्ययः स आत्मेत्येवंलक्षणस्य' पुरुषस्य शुद्धी-रागाधुच्छितिः १-विनयेन श्रुतमधीतं यद्यपि प्रमादेन भवति विस्मृतम् ।
तदुपतिष्ठते परभवे केवलज्ञानं चावहति ॥ २-असमस्तं पदं न शोभते । ३-अमृतचन्द्रसूरिणोक्तं समयसारकलशेषु नाटकसमयसारनाम्नि ग्रन्थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org