________________
६३०
अनगारधर्मामृते
सुत्तं गणहरकहिदं तहेव पत्तेयबुद्धकहियं च । सुदकेवलिणा कहिदं अभिण्णदसपुविकहियं च ॥ तं पढिदुमसज्झाए ण य कप्पदि विरदि इस्थिवग्गस्स। एत्तो अण्णो गंथो कप्पदि पढिएं असज्झाए ॥ आराधणणिज्जुत्ती मरणविभत्ती असग्गहथुदीवो। पञ्चक्खाणावासय धम्मकहाओ य एरिसओ ॥ भवति च । कोसौ ? स्वाध्यायः। किंलक्षणः ? तद्वाचनादयस्तस्य सूत्रस्य वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः। स च स्वाध्यायो भवति । कस्यै ? मुक्त्यै मोक्षाय । किंविशिष्टः सन् ? कृतो विहितः । कुतः ? द्रव्यादिशुद्धितः। द्रव्यादिशुच्या झधीतं शास्त्रं कर्मक्षयाय स्यादन्यथा कर्मबन्धायेति भावः । क? काले । अत्रायमागमः
दिसिदोहउक्कपडणं विजुवउक्काऽसणिंदधणुगं च। दुग्गंधसंझ-दुहिण चंदगहा-सूरराहुजुद्धं च ॥ कलहादिधूमकेदू धरणीकंपं च अंभगजं च ।
इञ्चेवमाइबहुगा सज्झाए वजिदा दोसा ॥ 'दव्ये' आत्मशरीरे परशरीरे च । 'सदत्थपरिमाणे' चतसृषु दिक्षु हस्तश. तचतुष्टयमात्रेण रुधिरादीनि वानीत्यर्थः । विनयाधीतस्य श्रुतस्य माहात्म्यमाहश्रुतं विनयतोऽधीतं प्रमादादपि विस्मृतम् । प्रेत्योपतिष्ठतेऽनूनमावहत्यपि केवलम् ॥५॥ १ सूत्रं गणधरकथितं तथैव प्रत्येकबुद्धकथितं च । श्रुतकेवलिना कथितमऽभिन्नदशपूर्वकथितं च ॥ तत् पठितुमस्वाध्याये न च कल्पते विरतस्त्रीवर्गस्य ।
एषोऽन्यो ग्रन्थः कल्पते पठितुं अस्वाध्याये । २ दिशिदाह उल्कापतनं विधुदुल्काशनिश्च धनुष्कं च ।
दुर्गन्धः सन्ध्या दुर्दिनं-चन्द्रग्रहः सूर्यराहुयुद्धश्च ॥ कलहादिधूमकेतुः धरणीकम्पश्च अम्भोगर्जनं ।। इत्येवमादयो बहुकाः स्वाध्याये वर्जिता दोषाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org