________________
नवमोऽध्यायः
६२९
षिकः । अपराह्निक इत्यर्थः । एवं गोसर्गे पूर्वाह्ने भवो गौसर्गिकः । पौर्वाह्निक इत्यर्थः ? किं विशिष्टं स्वाध्यायम् ? आत्तं गृहीतम् । प्रतिष्ठापितमित्यर्थः । कया ? लघुभक्त्या। कयोः ? श्रुतसूर्योः श्रुतस्याचार्यस्य च । लध्वी अञ्चलिकामात्रपाठरूपा भक्तिर्वन्दना । सा च श्रुतस्य यथा “अर्हत. क्त्रप्रसूतम्' इत्यादिका । एवमाचार्यादीनामपि यथाव्यवहारमसाववसेया । एवं स्वाध्याये द्वादशकायोत्सर्गा व्याख्याताः प्रतिपत्तव्याः । एवं वन्दनादिष्वपि पडादयः कायोत्सर्गा व्याख्यास्यमाना उन्नेयाः । स्वाध्यायानां ग्रहणक्षमापणकालेयत्तानिरूपणार्थमाहग्राह्यः प्रगे द्विघटिकादूर्ध्व स प्राक्ततश्च मध्याह्ने । क्षम्योऽपराह्नपूर्वापररात्रेष्वपि दिगेषैव ॥३॥ स स्वाध्यायो ग्राह्यः प्रतिष्ठाप्यः साधुभिः । क ? प्रगे प्रभाते । कथम् ? ऊर्व अनंतरम् । कस्मात् ? द्विघटिकाद् घटिकाद्वयात् । द्वयोर्घटिकयोः समाहारो द्विघटिकं, तस्माद् द्विधटिकात् । तृतीयायां घटिकायां प्रवर्तमानायामित्यर्थः । क्षम्यश्च निष्ठाप्यः । कोसौ ? स स्वाध्यायः ।क? मध्याहे । कथम् ? प्राक् पूर्वम् । कस्मात् ? ततो घटिकाद्वयात् । घटिकाद्वयोनमध्याह्ने संपन्ने सतीत्यर्थः । भवति च । कासौ ? दिग् उपदेशः। किंविशिष्टा ? एषैव अनन्तरोक्तैव । केषु ? अपराह्नपूर्वापररात्रेष्वपि । अपराढे घटिकाद्वयाधिकमध्याह्वादूर्व प्रतिष्ठाप्यो, घटिकाद्वयशेषे दिनान्ते निष्ठाप्यः । तथा घटिकाद्वयाधिके प्रदोषे ग्राह्यो, घटिकाद्वयहीनेऽर्धरात्रे निष्ठाप्यः । तथा घटिकाद्वयाधिकेऽर्धरात्रे ग्राह्यो, द्विघटिकावशेषे निशान्ते क्षम्य इत्यर्थः । स्वाध्यायं लक्षयित्वा विधिवत्तद्विधानस्य फलमाहसूत्रं गणधरायुक्तं श्रुतं तद्वाचनादयः। स्वाध्यायः स कृतः काले मुक्त्यै द्रव्यादिशुद्धितः॥४॥ भवति । किं तत् ? सूत्रम् । किम् ? श्रुतम् । कीदृशम् ? गणधराद्युक्तं गणधरादिभिः प्रणीतम् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org