________________
अथ नवमोऽध्यायः ॥ ९॥
अथ चतुश्चत्वारिंशता पद्यैर्नित्यक्रियाप्रयोगविधौ मुनिमुद्यमयन्नाह - शुद्धखात्मोपलम्भाग्रसाधनाय समाधये । परिकर्म मुनिः कुर्यात् स्वाध्यायादिकमन्वहम् ॥ १ ॥
मुनिः संयमी कुर्याद् विदधीत । किं तत् ? परिकर्म योग्यतोत्पादनाय प्राग्विधेयमनुष्ठानम् । किंविशिष्टम् ? स्वाध्यायादिकं वक्ष्यमाणम् । कथम् ? अन्वहमनुदिनम् । कस्मै ? समाधये स्वस्वरूपे चित्तनिरोधलक्षणाय योगाय । किंविशिष्टाय ? शुद्धस्वात्मोपलम्भाप्रसाधनाय निर्मल निजचिद्रूपोपलब्धिप्रधानकारणाय । उक्तं च
यदात्रिकं फलं किंचित् फलमामुत्रिकं च यत् । एतस्य द्वितयस्यापि ध्यानमेवाग्रकारणम् ॥ स्वाध्यायप्रतिष्ठापन निष्ठापनयोर्विधिमुपदिशति - स्वाध्यायं लघुभुक्त्यात्तं श्रुतसूर्योरहर्निशे । पूर्वेऽपरेपि चाराध्य श्रुतस्यैव क्षमापयेत् ॥ २ ॥
क्षमापयेत् । कोसौ ? मुनिः । कम् ? स्वाध्यायम् । कया ? लघुभक्त्या । कस्य ? श्रुतस्यैव । लध्व्या श्रुतभक्त्या निष्ठापयेदित्यर्थः । किं कृत्वा ? आराध्य विधिवद्विधाय । क्व ? अहर्निशे दिने रात्रौ च । किंविशिष्टे ? पूर्वे, न केवलमऽपरेपि च पूर्वाह्णेऽपराह्णे । पूर्वरात्रेऽपररात्रे चेत्यर्थः । एतेन गौसर्गिकापराह्निकप्रादोषिकवैरात्रिकाश्चत्वारः विधातव्या इत्युक्तं भवति । यथाह—
स्वाध्याया
एकः प्रादोषिको रात्रौ द्वौ च गौसर्गिकस्तथा । स्वाध्यायाः साधुभिः सर्वे कर्तव्याः सन्त्यतन्द्रितैः ॥ प्रदोषः प्रत्यासन्नः कालः । अन्न प्रदोषोऽपराह्नः । तत्र भवः प्रादो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org