SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। प्रकृतमुपसंहरन् नित्यनैमित्तिककृतिकर्मप्रयोगं नियमयबाहइत्यावश्यकनियुक्ता उपयुक्तो यथाश्रुतम् । प्रयुञ्जीत नियोगेन नित्यनैमित्तिकक्रियाः॥ १३४॥ प्रयुञ्जीत विदधीत साधुः । काः ? नित्यनैमित्तिकक्रियाः नित्यकेयाश्च नैमित्तिकक्रियाश्चेति विगृह्य प्रथम क्रियाशब्दस्य गतार्थत्वादप्रयोगः । अथवा नित्याश्च नैमित्तिकाश्च नित्यनैमित्तिकाः । ताश्च ताः क्रियाश्च नित्यनैमित्तिकक्रियाः। नित्या इत्यस्य 'पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु' इत्यादिवत्पुंवदावः । केन प्रयुञ्जीत ? नियोगेन नियमेन। कथम् ? यथाश्रुतं कृतिकर्मशास्त्रस्य गुरुपर्वक्रमायातोपदेशस्य वानतिक्रमेण । किंविशिष्टः सन् ? उपयुक्तः प्रणिहितः। कस्याम् ? आवश्यकनियुक्तौ आवश्यकानां निरवशेषोपाये । कथम् ? इति एवमुक्तनीत्या । इति भद्रम् । ग्रन्थसंख्या १५४५ यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागम,क्षीरोदं शिवधीनिमथ्य जयतात् स श्रीमदाशाधरः। भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिम, टीकाशुक्तिमचीकरत् सुखमिमां तस्योपयोगाय यः॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायामावश्यकनियुक्ताभिधानीयो नामाष्टमोऽध्यायः ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy