________________
अनगारधर्मामृते
साधुर्विशेत् प्रविशेत् । क ? वसत्यादौ मठचैत्यालयादौ । किं कृत्वा ? आपृच्छय संवाद्य । कम् ? भूतादिं भूतयक्षनागादिकम् । किंविशिष्टम् ? तत्स्थं तत्र वसत्यादौ तिष्ठन्तम् । कया ? निसहीगिरा निसहीकेत्युच्चारणेन । तथा साधुर्निर्गच्छेन्निष्कामेत् । कस्मात् ? तस्माद् वसत्यादेः । किं । कृत्वा ! आपृच्छय । कम् ? तं तत्स्थं भूतादिकम् । कया ? असहीगिरा असहीकेत्युच्चारणेन । चः समुच्चये । उक्तं च
वसत्यादिस्थभूतादिमापृच्छय निसहीगिरा । वसत्यादौ विशेत्तस्मानिर्गच्छेत् सोऽसहीगिरा ॥ परमार्थतो निसह्यसह्यौ लक्षयति
आत्मन्यात्मासितो येन त्यक्त्वा वाऽऽशास्य भावतः। निसह्यसह्यौ स्तोन्यस्य तदुच्चारणमात्रकम् ।। १३३ ॥ स्तो भवतः । के ? निसह्यसह्यौ । कस्मात् ? भावतो निश्चयनयात् । कस्य ? अस्य साधोः । येन किम् ? येनासितः स्थापितः सितो वा बद्धः । कोसौ ? आत्मा । कस्मिन् ? आत्मनि न केवलं, त्यक्ता च । कासौ ? आशा इहलोकाद्यभिलाषः । तथास्ति । किं तत् ? उच्चारणमात्रकं 'निसह्यसही' शब्दोच्चारणमात्रम् । कस्य ? अन्यस्य बहिरात्मन आशावतश्च । तथा च पूर्वभाषितानि
स्वात्मन्यात्मासितो येन निषिद्धो वा कषायतः। निसही भावतस्तस्य शब्दोन्यस्य हि केवलः॥ आशां यस्त्यक्तवान् साधुरसही तस्य भावतः। त्यक्ताशा येन नो तस्य शब्दोच्चारो हि केवलः ॥ अथवानिषिद्धचित्तो यस्तस्य भावतोस्ति निषिद्धिका। अनिषिद्धस्य तु प्रायः शब्दतोस्ति निषिद्धिका ॥ आशया विप्रमुक्तस्य भावतोस्त्यासिका मता। आशया त्ववियुक्तस्य शब्द एवास्ति केवलम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org