SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। ६२५ जं संकइ तं कीरइ जं च ण सकेइ तं च सहहणं । सद्दहमाणो जीओ पावइ अजरामरं ठाणं । वै इति नियमार्थेनैतद्बोधयतिसर्वैरावश्यकैर्युक्तः सिद्धो भवति निश्चितम् । सावशेषैस्तु संयुक्तो नियमात्स्वर्गगो भवेत् ॥ षडावश्यकक्रिया इव सामान्या अपि क्रिया नित्यं साधुना कार्या इत्युपदिशति आवश्यकानि षट् पञ्च परमेष्ठिनमस्क्रियाः। निसही चाऽसही साधोः क्रियाः कृत्यास्त्रयोदश ॥१३०॥ साधोः संयतस्य त्रयोदश क्रियाः कर्माणि कृत्त्या अवश्यकार्याः । ता एवाह-षडावश्यकानि साधुना कृत्यानि परमेष्ठिनमस्क्रियाः अहंदादिनमस्काराः पञ्च साधुना कृत्याः । निसही असही चेति द्वे क्रिये साधुना कृत्ये । इति प्रत्येकवाक्यपरिसमास्यां संबन्धनीयम् । भावतोहदादिनमस्कारपञ्चकस्य फलमाहयोर्हत्सिद्धाचार्याध्यापकसाधून नमस्करोत्यर्थात् । प्रयतमतिः खलु सोखिलदुःख विमोक्षं प्रयात्यचिरात्॥१३१ स भावतोहदादिनमस्कर्ता प्रयाति लभते । कम् ? अखिलदुःखवि. मोक्षमखिलेभ्यश्चतुर्गतिसंबन्धिभ्यो दुःखेभ्यः विमोक्षं विश्लेषम् । कस्मात् ? अचिरादल्पेनैव कालेन । कथम् ? खलु निश्चयेन । यः किम् ? यः प्रयतमतिः प्रयत्नपरचित्तो नमस्करोति वन्दते । कान् ? अर्हत्सिद्धाचार्याध्यापकसाधून जिनेन्द्रपरममुक्तसूर्युपाध्यायसर्वसाधून् । कस्मात् ? अर्थात् परमार्थतः। निसह्यसहीप्रयोगविधिमाहवसत्यादौ विशेत् तत्स्थं भूतादि निसहीगिरा। आपृच्छय तस्मानिर्गच्छेत्तं चापृच्छयाऽसहीगिरा ॥१३२॥ १ यत् शक्नोति तत्करोति यच्च न शक्नोति तच्च श्रद्दधन् । श्रद्दधानो जीवः प्राप्नोति अजरामरं स्थानम् ॥ - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy