Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
नवमोऽध्यायः।
श्रूयते तन्नित्यदेववन्दनायुक्तयोरेतयोर्विधानमुक्तमिति वृद्धसंप्रदायः । सिद्धप्रतिमायां तीर्थकरजन्मन्यपूर्वजिनचैत्ये च क्रियोपदेशार्थमाह
सिद्धभक्त्यैकया सिद्धप्रतिमायां क्रिया मता।
तीर्थकृज्जन्मनि जिनप्रतिमायां च पाक्षिकी ॥४८॥ मता। कासौ ? क्रिया। कस्याम् ? सिद्धप्रतिमायाम् । कया ? सिद्धभत्त्या। किंविशिष्टया? एकया। तथा पाक्षिकी क्रिया मता। क ? तीर्थकृजन्मनि । न केवलं, जिनप्रतिमायां च । पूर्वजिनचैत्ये॥ अपूर्वचैत्यवन्दनानित्यदेववन्दनाभ्यामष्टम्यादिक्रियासु योगे चिकीर्षिते चैत्यपञ्चगुरुभक्त्योः प्रयोगस्थानमाह
दर्शनपूजाविसमयवन्दनयोगोष्टमीक्रियादिषु चेत् । प्राक् तर्हि शान्तिभक्तेः प्रयोजयेच्चैत्यपञ्चगुरुभक्ती ॥४९॥ दर्शनपूजा अपूर्वचैत्यवन्दना । निसमयवन्दनं त्रैकालिकनित्यवन्दना । दर्शनपूजा च त्रिसमयवन्दनं च दर्शनपूजाबिसमयवन्दने । ताभ्यां योगो योजना चेद्भवति । कासु ? अष्टमीक्रियादिषु अष्टम्यादिक्रियासु । तर्हि प्रयोजयेत्साधुः । के ? चैत्यपश्चगुरुभक्ती । कथम् ? प्राक् पूर्वम् । कस्याः ? शान्तिभक्तेः। उक्तं च चारित्रसारे
"अष्टम्यादिक्रियासु दर्शनपूजात्रिकालदेववन्दनायोगे।
शान्तिभक्तितः प्राक्चैत्यभक्तिं पञ्चगुरुभक्तिं च कुर्यात्" इति। एकत्र स्थानेऽनेकापूर्वचैत्यदर्शने क्रियाप्रयोगविषयं पुनस्तदर्शने तदपूर्वत्वकालेयत्तां चोपदिशति
दृष्ट्वा सर्वाण्यपूर्वाणि चैत्यान्येकत्र कल्पयेत् । क्रियां तेषां तु षष्ठेनुश्रूयते मासऽपूर्वता ॥ ५० ॥ - २-अष्टमीचतुर्दश्योः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698