Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 656
________________ नवमोऽध्यायः । ६५१ यतैः संयतैर्गणी सूरिर्वन्द्यः । किं कृत्वा ? गृहीत्वा । कम् ? योगं रात्रियोगम् । किं कृत्वा ? कृत्त्वा । कम् ? प्रतिक्रमम् । किंविशिष्टम् ? आह्निकम् । किं कृत्वा ? निष्ठाप्य । कम् ? तं स्वाध्यायम् । क ? अह्नि दिने । किंविशिष्टे ? नाडीद्वयावशेषे दिनान्ततृतीयघटिकायां प्रवर्तमानायामित्यर्थः । चः समुच्चये । आचार्यवन्दनानन्तरविधेयं देववन्दनादिविधिमाह स्तुत्वा देवमथारभ्य प्रदोषे सद्विनाडिके | मुञ्चेनिशीथे स्वाध्यायं प्रागेव घटिकाद्वयात् ॥ ४१ ॥ अथ अनन्तरं सांधुर्देवं स्तुत्वा प्रदोषे रजनीमुखे सद्विनाडिके टकाद्वयाधिक प्रवृत्ते सति स्वाध्यायमारभ्य प्रतिष्ठाप्य मुञ्चेन्निष्टापयेत् स्वाध्यायम् । क : निशीथेऽर्धरात्रे । कथम् ? प्रागेव पूर्वमेव । कस्मात् ? घटिकाद्वयात् ॥ रात्रौ निष्ठापित स्वाध्यायस्य निद्राजयोपायमाहज्ञानाद्याराधनानन्दसान्द्रः संसारभी रुकः । शोचमानोऽर्जितं चैनो जयेन्निद्रां जिताशनः ॥ ४२ ॥ जयेन्निगृह्णीयात्साधुः । काम् ? निद्राम् । किंविशिष्टः सन् ? जिताशन आहारेणाग्लापितः । दन्त्यसकारे वा पाठः । तत्र पर्यङ्काद्यासनेनासंजातवेद इत्यर्थः । कथंभूतो भूत्वा ? ज्ञानाद्याराधनानन्दसान्द्रः ज्ञानादीनां ज्ञानश्रद्धानचारित्रतपसामाराधनाज्जात आनन्दः प्रमोदः सान्द्रो घनो निरन्तरप्रवृत्तो यस्य स एवम् । तथा संसारभीरुकः । संविग्न इत्यर्थः । तथा शोचमानस्ताच्छील्येन शोचन् । किं तत् ? एनः पापम् । किंविशिउम् ? अर्जितं पुराकृतम् । च समुच्चये । उक्तं चज्ञानाद्याराधने प्रीतिं भयं संसारदुःखतः । पापे पूर्वार्जिते शोकं निद्रां जेतुं सदा कुरु ॥ स्वाध्याय करणेऽशक्तस्य च देववन्दनाकरणे विधानमाह - सप्रतिलेखनमुकुलितवत्सोत्सङ्गितकरः सपर्यङ्कः । कुर्यादेकाग्रमनाः स्वाध्यायं वन्दनां पुनरशक्त्या ॥ ४३ ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698