Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 643
________________ ६३८ अनगारधर्मामृते इष्टं पूर्वाचायः । किं तत् ? कृतिकर्म । कतिधा ? षोढा षट्प्रकारम् । कथम् ? एवमऽनेन स्वाधीनतादिप्रकारेण तावत्कृतिकर्मणः प्रकारः स्यात् । किमात्मकः ? स्वाधीनता वन्दारोः स्वातन्त्र्यम् । तथा परीतिः प्रदक्षिणा कृतिकर्मप्रकारः स्यात् । किंविशिष्टा ? त्रयी व्यवयवा । प्रदक्षिणास्तिस्त्र इत्यर्थः। तथा निषद्या कृतिकर्मप्रकारः स्यात् । किंविशिष्टा ? त्रयी आवृत्त्या त्रीण्युपवेशनानि क्रियाविज्ञापनचैत्यभक्तिपञ्चगुरुभक्त्यनन्तरालोचनाविषयाणि । तथा त्रिवारं कृतिकर्मप्रकारः स्यात् चैत्यपञ्चगुरुसमाधिभक्तिषु त्रिः कायोत्सर्गविधानात् । तथाऽऽवर्ता द्वादश कृतिकर्मप्रकारः स्यात् । तथा चत्वारि शिरांसि मूर्धावनतयो वन्दना प्रधानभूता वाह सिद्धसाधुधर्माः कृतिकर्मप्रकारः स्यात् । उक्तं च सिद्धान्तसूत्रे "आदाहीणं पदाहीणं तिक्खुत्तं तिऊणदं । चदुस्सिरं वारसावत्तं चेदि”। जिनचैत्यवन्दनायाः प्रचुरपुण्यास्रवणपूर्वपुण्योदयस्फारीकरणप्राक्तनपापविपाकापकर्षणापूर्वपातकसंवरणलक्षणां फलचतुष्टयी प्रतिपाद्य सर्वदा तत्र त्रिसन्ध्यं मुमुक्षुवर्गमुद्यमयन्नाह दृष्ट्रार्हत्प्रतिमां तदाकृतिमरं स्मृत्वा स्मरंस्तद्गुणान्, रागोच्छेदपुरःसरानतिरसात् पुण्यं चिनोत्युच्चकैः । तत्पाकं प्रथयत्यघं क्रशयते पाकाद्रुणद्ध्यास्रवत्, तचैत्यान्यखिलानि कल्मषमुषां नित्यं त्रिशुद्ध्या स्तुयात् ॥ चिनोति बध्नाति वन्दारुः । किं तत् ? पुण्यं सद्वेद्यशुभायुर्नामगोत्र. लक्षणं सुकृतम् । कथम् ? उच्चकैरत्यर्थम् । किं कुर्वन् ? स्मरन् स्मृतिगोचरीकुर्वन् । कान् ? तहणान् तस्याहनहारकस्य गुणान् । किंविशिष्टान् ? रागोच्छेदपुरस्सरान् । रागोच्छेदो वीतरागत्वं पुरस्सरः प्रमुखो येषां सर्वज्ञत्वसर्वदर्शिवादीनां ते रागोच्छेदपुरस्सरास्तान् । कस्मात्तान् सरन् ? अतिरसादऽनुरागोद्रेकात् । उक्तं च "वपुरेव तवाचष्टे भगवन् वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शावलः॥" इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698