Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 641
________________ अनगारधर्मामृते संवेध इत्यर्थः । परमेत्यादि । परमा प्रकर्षप्राप्ता विशदा अव्यवधानेन विशेपवत्तया वा प्रतिभासमाना दृक् परमविशददृक् केवलज्ञानम् । तत्र विश्वस्य लोकालोकस्य रूपाण्याकारा यस्यासौ परमविशदग्विश्वरूपः। तच तस्पुनर्योगिध्यानं भवति । कीदृशम् । साध्यं निर्वर्तयितुं शक्यम् । केन ! स्वांतस्थेनैव मनःस्थैर्येणैव, न मनश्चपलत्वेन । स्थिरस्य भावः स्थेमा । स्वान्तस्य स्थेमा स्वान्तस्थेमा । तेन स्वान्तस्थेन्ना। यथाह ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् । गुरूपदेशः श्रद्धानं सदाभ्यासः स्थिरं मनः॥ अपि च अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मनः। धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्पुनः ॥ यत एवं तत् तस्मात्कारणादऽमलमतयोऽकलुषबुद्धयः साधव आसूत्रयन्तु रचयन्तु । किं तत् ? तत्पूजाकर्म जिनेन्द्रवन्दनाम् । तस्य जिनेन्द्रस्य परमात्मापराभिधानस्य पूजाकर्म विनयक्रिया तत्पूजाकर्म । कथम् ? यथासूत्रं परमागमानतिक्रमेण । कथं कृत्वा ? कर्मच्छिदुरमिति कर्मणां ज्ञानावरणादीनां मनोवाक्कायक्रियाणां वा छिद्रं छेदनशीलमेकदेशेन तदपनेतृत्वादिति हेतोः । किंविशिष्टम् ? तदनवधिगुणग्रामगाढानुरागम् । तस्य जिनेन्द्रस्यानवधयोऽनन्ता गुणा ज्ञानादयस्तदनवधिगुणाः । तेषां ग्रामः संघातः । तत्र गाढो दृढोनुरागो भक्तिः श्रद्धानं यत्र तत्पूजाकर्मणि तत्तथोक्तम् । एतेन भावपूजां लक्षयति । तथा चोक्तम् व्यापकानां विशुद्धानां जैनानामनुरागतः। गुणानां यदनुध्यानं भावपूजेयमुच्यते ॥ किं कर्तुम् ? विधातुं विधास्यामीति कर्तुम् । किं तत् ? चित्तस्थैर्यम् । कीदृशम् ? तत्पथध्यानबीजं परमात्मप्राप्त्युपायभूतधर्म्यशुक्ललक्षणप्रणि. धानकारणभूतम् । तस्य परमात्मनः पन्थाः प्राप्त्युपायस्तत्पथः । तत्पथश्च स ध्यानं च तत् तत्पथध्यानम् । तस्य बीजं कारणम् ॥ त्रैकालिकदेववन्दनायाः प्रयोगविधिमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698