Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 646
________________ नवमोऽध्यायः। कृत्य ननं विधाय । कम् ? विग्रहं शरीरम् । किं कृत्वा ? उत्थाय उद्भी. भूय । किं कृत्वा ? विज्ञाप्य । काम् ? क्रियां प्रकृताम् । वन्दनां ज्ञापयित्वेत्यर्थः । कथंभूतो भूत्वा ? आत्तसाम्यः "खमामि सव्वजीवाणं" इत्यादिसूत्रोच्चारणेन प्रतिपन्नसामायिकः । किं कृत्वा? उक्त्वा पठित्वा । किं तत् ? अग्रमङ्गलं मुख्यमङ्गलं जिनेन्द्रगुणस्तोत्रं "सिद्धं संपूर्णभव्यार्थम्" इत्यादि रूपम् । किंविशिष्टः सन् ? पर्यङ्कस्थः पर्यङ्कासनेन तिष्ठन् । किं कृत्वा ? आश्रित्य । किं तत् ? कृत्यम् । कस्याग्रे ? गुरोर्धर्माचार्यस्य । तद्दूरे देवस्याग्रे देववन्दनां प्रतिक्रमणादिकं वा कृत्यमाश्रित्य नमोस्तु देववन्दनां करिष्यामीत्यादिरूपेणाङ्गीकृत्य । किं कृत्वा ? नत्वा प्रणम्य गुरुम् । कथं कृत्वा ? आनम्रकांघ्रिदोः समन्तात्साधुत्वेन नमन्मस्तकपादहस्तम् । कं च मस्तकमडी च पादौ दोषौ च हस्तौ कांघ्रिदोरिति समाहारद्वन्द्वः। आननं कांघ्रिदोर्यत्र नमनकर्मणि तदानम्रकांघ्रिदोः । क्रियाविशेषणमेतत् । अथवा आननं कांघ्रिदोर्यस्य सआनम्रकाघ्रिदोः क्रियाकारी। किं कृत्वा? आलोच्य " इच्छामि " इत्यादिदण्डकेन निन्दागर्दीरूपामालोचनां कृत्वा । किं कृत्वा? कृत्वा । काम् ? ईर्यापथसंशुद्धिमैर्यापथिकदोषविशुद्धिम् । " पडिकमामि " इत्यादिदण्डकेन विधायेत्यर्थः । किं कुर्वन् ? पठन् । किं तत् ? दर्शनस्तोत्रं दर्शने भगवदवलोकनविषये दर्शनाय वा सम्यक्त्वाय दर्शनवद्वा सामान्यविषयत्वात् स्तोत्रं स्तवनं " दृष्टं जिनेन्द्रभवनम्" इत्यादि सामान्यस्तवनजातं दर्शनस्तोत्रम् । कया ? वन्दनामुद्रया प्रागुक्तलक्षणया। किं कृत्वा ? परीत्य प्रदक्षिणीकृत्य । कम् ? जिनालयम् । कथम् ? त्रिस्त्रीन् वारान् । किं विशिष्टः सन् ? आनतश्चैत्याय प्रणतः । कथम् ? त्रिः । पुनः किंविशिष्टः ? चैत्यालोकोद्यदानन्दगलद्वाष्पः । चैत्यस्यालोको दर्शनं चैत्यालोकः । तेनोद्यन्नुद्गच्छन्नानन्दः प्रमोदश्चैत्यालोकोद्यदानन्दः । तेन गलन्ति स्रवन्ति बाष्पाण्यश्रूणि यस्य स एवम् । किं कृत्वा ? प्रविश्य । कम् ? तं जिनालयम् । कया ? निसहीगिरा निसहीकेति शब्दोच्चारणेन । कथंभूतो भूत्वा ? कृतद्रव्यादिशुद्धिः । कृता द्रव्यक्षेत्रकालभावविशुद्धिर्येन स एवम् । किं कृत्वा ? गत्वा । कम् ? जिनालयम् । किं कुर्वन् ? पश्यन्नवलोकयन् । किं तत् ? स्तुत्यं भावरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698