________________
६२२
अनगारधर्मामृते
आवश्यकमिदं धीरः सर्वकर्मनिषूदनम् ।
सम्यक कर्तुमसौ योग्यो नापरस्यास्ति योग्यता ॥ मन्दमतिसुखप्रतिपत्तये क्रमवदिति विशेषणं विवृण्वन्नाहप्रेप्सुः सिद्धिपथं समाधिमुपविश्यावेद्य पूज्यं क्रिया,मानम्यादिलयभ्रमत्रयशिरोनामं पठित्वा स्थितः । साम्यं त्यक्ततनुर्जिनान् समदृशः स्मृत्त्वावनम्य स्तवं, युक्त्वा साम्यवदुक्तभक्तिरुपविश्यालोचयेत् सर्वतः॥१२७॥ सिद्धिपथं स्वात्मोपलब्ध्युपायभूतं समाधि रत्नत्रयैकाग्रतां प्रेप्सुः प्राप्तुमिच्छुः संयतो देशसंयतो वा आलोचयेत् 'इच्छामि भत्ते चेइयभत्तिकाउस्सगो कओ तस्स आलोचेअं' इत्यादि प्रसिद्धनिगदमुच्चारयंस्तदर्थ मनसा विचिन्तयेत् । किं कृत्वा ? उपविश्य उपवेशनं कृत्वा । क्व ? सर्वतः सर्वासु विभक्तिषु । किं कृत्वा ? उपविश्य निविश्य आवेद्य च 'चैत्यभक्तिकायोत्सगं करोमि' इत्यादिरूपेण सप्रश्रयप्रणतिपूर्वकं विज्ञाप्य । कम् ? पूज्यं गुर्वादिकम् । काम् ? क्रियां कृतिकर्म । किंविशिष्टः ? स्थितः। किं कृत्वा ? आनम्य शरीरावनतिं कृत्वा । पुनरुद्भीभूतः सन्नित्यर्थः । किं कृत्वा ? पठित्वा निगद्य । किं तत् ? साम्यं सामायिकदण्डकम् । कथम् कृत्वा ? आदिलयभ्रमत्रयशिरोनामम् । आरम्भे समाप्तौ चावर्तत्रयानन्तरप्रयुक्तमेकं शिरोनमनं यत्रेत्यर्थः । आदिश्च लयश्चादिलयौ आरम्भसमाप्ती। भ्रमाणामावर्तानां त्रयं भ्रमत्रयम् । शिरसो नाम नमनं शिरोनामः । श्रमत्रयादनन्तरं प्रयुक्तः शिरोनामो भ्रमत्रयशिरोनामः। 'मयूरव्यंसकादित्वात् । समासः। आदिलययोर्धमत्रयशिरोनामो यत्र तदेवम्। क्रियाविशेषणमिदम् । पुनः किंविशिष्टः ? त्यक्ततनुरालम्बितकायोत्सर्गः । त्यक्ता निर्ममतया प्रतिपना तनुः शरीरं येनासौ त्यक्ततनुः । पुनरपि किंविशिष्टः ? उक्तभक्तिः पठितवन्दनाकल्पः । किं कृत्वा ? युक्त्वा प्रयुज्य । कम् ? स्तवं 'थोस्सामि' इत्यादिदण्डकम् । किंवत् ? साम्यवत् सामायिकदण्डकं यथा । आदिलयेत्यादिविधिनेत्यर्थः ! किं कृत्वा ? अवनम्य शरीरावनतिं कृत्वा ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org