________________
अष्टमोऽध्यायः।
६२१
त्रियोगशुद्ध कृतिकर्मण्यधिकारिणं लक्षयतियत्र स्वान्तमुपास्य रूपरसिकं पूतं च योग्यासना,द्यप्रत्युक्तगुरुक्रमं वपुरनुज्येष्ठोद्धपाठं वचः । तत् कर्तुं कृतिकर्म सज्जतु जिनोपास्त्योत्सुकस्ताविकः कर्मज्ञानसमुच्चयव्यवसितः सर्वसहो निस्पृहः ॥१२६ ॥ सजतु सजीभवतु । कोसौ ? जिनोपास्त्योत्सुक इत्यादिपञ्चविशेषणः विशिष्टः । किं कर्तुम् ? कर्तुम् । किं तत् ?कृतिकर्म । उत्सुकः सोत्कण्ठाभिलाषः । कया ? जिनोपास्त्या अहंदुपासनया । 'प्रसितोत्सुकाभ्यां मा च' इति तृतीया। तात्त्विकः परमार्थिकः । कर्मज्ञानसमुच्चयव्यवसितः । कर्मणां सूत्रोक्तक्रियाणां ज्ञानस्य च स्वात्मावबोधस्य समुच्चयः संग्रहः तत्र व्यवसितः कृतोत्साहः सर्वसहः परीषहोपसर्गसहिष्णुः । निस्पृहो निरीहः । यत्र किम् ? यत्र कृतिकर्मण्यस्ति । किं तत् ? स्वान्तं मनः। किंविशिष्टम् ? उपास्यरूपरसिकमुपास्यानामाराध्यानां सिद्धादीनां रूपं स्वरूपमुपास्यरूपम् । तत्र रसिकं सातिशयानुरागम् । न केवलं, पूतं च भावविशुद्धम् । एतेन त्रयमपि विशेष्टव्यम् । तथा यत्र वपुः शरीरमस्ति । किंविशिष्टम् ? योग्यासनाद्यप्रत्युक्तगुरुक्रमम् । गुरुक्रमो दीक्षाज्येष्ठानां पुरःक्रियां कुर्वतामानुपूर्व्यम् । आसनमादिर्येषां स्थानादीनां तान्यासनादीनि । योग्यानि समुचितान्यासनादीनि योग्यासनादीनि । तैरप्रत्युक्तोऽनिराकृतो गुरुक्रमो येन तत् तथोक्तम् । न केवलं, पूतं च द्रव्यतः शुद्धम् । तथा यत्र वचो वचनमस्ति । किंविशिष्टम् ? अनुज्येष्ठोद्यपाठं ज्येष्ठानुक्रमेण प्रशस्तोच्चारणम् । न केवलं, पूतं च वर्णपदादिशुद्धम् । उक्त च
स व्याधेरिव कल्पत्वे विदृष्टेरिव लोचने । जायते यस्य संतोषो जिनवक्त्रविलोकने । परीषहसहः शान्तो जिनसूत्रविशारदः। सम्यग्दृष्टिरनाविष्टो गुरुभक्तः प्रियंवदः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org