________________
६२०
अनगारधर्मामृते
धर्म्यशुक्लद्वयं यस्यामुपविष्टेन चिन्त्यते । उपविष्टोत्थितां सन्तस्तां वदन्ति तनूत्सृतिम्॥ आर्तरौद्रद्वयं यस्यामुत्थितेन विधीयते। तामुत्थितोपविष्टायां निगदन्ति महाधियः॥ धर्म्यशुक्लद्वयं यस्यामुत्थितेन विधीयते ।
उत्थितोत्थितनामानं तां भाषन्ते विपश्चितः ॥ कायममत्वापरित्यागिनोऽनशनव्रतस्यापि मुमुक्षोः स्वेष्टसिद्धिप्रतिबन्धंदर्शयति
जीवदेहममत्वस्य जीवत्याशाप्यनाशुषः। जीवदाशस्य सयानवैधुर्यात्तत्पदं कुतः ॥ १२४ ॥ जीवति प्राणिति । कासौ ? आशा । कस्य ? जीवदेहममत्वस्य जीवत् प्राणद् देहममत्वं यस्यासौ जीवदेहममत्वस्तस्य । किंविशिष्टस्यापि ? अनाशुषोऽनशनव्रतस्यापि । कुतः कस्मादाचरणाद्भवति । किम् ? तत्पदं तत् प्रसिद्धं पदं स्थानम् । मोक्ष इत्यर्थः कस्य ? जीवदाशस्य जीवन्ती प्राणती आशा इहलोकाभिलाषो यस्यासौ जीवदाशस्तस्य । कस्मात् ? सयानवैधुर्याद् धय॑शुक्लसमाधिवैकल्यात् ।।
अतीचारविशुद्य क्रियाविशेषसिद्ध्यै वा यथोक्तकालं कायोत्सर्ग कृत्त्वा परतोपि शक्त्या तत्करणे न दोषः स्यात् । किं तर्हि ? गुण एव भवेदित्युपदेशार्थमाह
हृत्वापि दोषं कृत्वापि कृत्यं तिष्ठेत् तनूत्स्तौ । कर्मनिर्जरणाद्यर्थ तपोवृद्ध्यै च शक्तितः॥ १२५ ॥ तिष्ठेत् आसीत् मुमुक्षुः । कस्याम् ? तनूत्मृतौ । कुतः ? शक्तितो वीर्यानिगहनेन । किमर्थम् ? कर्मनिर्जरणाद्यर्थ कर्मनिर्जरासंवरणार्थम् । न केवलं, तपोवृद्ध्यै च तपसामुपचयार्थम् । किं कृत्वा ? हृत्वापि निरस्यापि । किम् ? दोषम् । न केवलं, कृत्वापि । किं तत् ? कृत्यमवश्यकार्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org