SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । wwimmmmmmmmmmm. योज्येति यत्नाद् द्वात्रिंशदोषमुक्ता तनूत्मृतिः । सा हि मुक्त्यङ्गसद्ध्यानशुद्ध्ये शुद्धैव संमता ॥ १२२ ॥ योज्या प्रयोक्तव्या मुमुक्षुणा । कासौ ? तनूत्सृतिः कायोत्सर्गः । किंविशिष्टा ? द्वात्रिंशदोषमुक्ता द्वात्रिंशताऽतीचारै रहिता । कस्मात् ? यत्नात् प्रयत्नमाश्रित्य । कथम् ? इति एवंप्रकारेण । हि यस्मात् सा तनूत्सृतिः संमता सम्यगिष्टा आचार्याणाम् । कीदृशी ? शुद्धैव, नाशुद्धा। कस्यै ? मुक्त्यङ्गसद्ध्यानशुद्ध्यै मुक्त्यङ्गस्य निःश्रेयसकारणस्य सध्यानस्य धय॑शुक्ललक्षणस्य शुद्धिवैशयं मुक्त्यङ्गसच्यानशुद्धिस्तस्यै । उक्तं च सदोषा न फलं दत्ते निर्दोषायास्तनूत्सृतेः। किं कूटं कुरुते कार्य स्वर्ण सत्यस्य जातुचित् ॥ उत्थितोत्थितादिभेदभिन्नायाश्चतुर्विधायास्तनूत्सृतेरिष्टानिष्टफलत्वं लक्षयति सा च द्वयीष्टा सद्ध्यानादुत्थितस्योत्थितोत्थिता । उपविष्टोत्थिता चोपविष्टस्यान्यान्यथा द्वयी ॥ १२३ ॥ सा च तनूत्मृतिरिष्टाऽभिमता सूरिणाम् । किंविशिष्टा? द्वयी व्यवयवा। कस्मात् ? सध्यानाद्धय॑ध्यानं शुक्लध्यानं चाश्रित्य । कीदृशी ? उत्थितोत्थिता उत्थितोत्थिताख्या । कस्य ? उत्थितस्य उद्दीभूतस्य । न केवलम्, उपविष्टोत्थिता चोपविष्टोत्थिताख्या । कस्य ? उपविष्टस्य निविष्टस्य पुंसः। अन्या अपरा द्वयी इष्टा । कथम् ? अन्यथा । उक्तविपर्ययेन्यथाशब्दः । तेनोपविष्टस्योत्थितस्य चार्तरौद्रचिन्तनलक्षणादुानादुपविष्टोपविष्टा उत्थितोपविष्टा च द्वयी तनूत्सृतिरनिष्टाऽनिष्टफलत्वादित्यर्थः । उक्तं च त्यागो देहममत्वस्य तनूत्सृतिरुदाहृता। उपविष्टोपविष्टादिविभेदेन चतुर्विधा॥ आर्तरौद्रद्वयं यस्यामुपविष्टेन चिन्त्यते । उपविष्टोपविष्टाख्या कथ्यते सातनत्मृतिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy