SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ६१८ अनगारधर्मामृते किम् ? संज्ञा । केन ? मुखनासाविकारतो वस्त्रनासिकाविकृत्या | किंवत् ? मूकवन्मुकस्य यथा । ( १७ ) अङ्गुली नाम दोषः स्यात् । कासौ ? अङ्गुलीगणना अङ्गुलीभिः संख्यानम् । भ्रूक्षेपो भ्रूविकारः स्याद् घूर्णनं मदिरार्तवत् । उन्मत्त ऊर्ध्वं नयनं शिरोधेर्बहुधाप्यधः ॥ ११९॥ (१८) भ्रूक्षेपो नाम दोषः स्यात् । कोसौ ? भ्रूविकारो वोर्विकारकरणम् । ( १९ ) उन्मत्तो नाम दोषः स्यात् । किं तत् ? घूर्णनं भ्रमणम् । किं वत् ? मदिरार्तवद् मद्याभिभूतस्य यथा । ( २० ) ऊर्ध्वमित्यादि । शिरोधेवाया ऊर्ध्वं नयनम् । कथम् ? बहुधा बहुभिः प्रकारैः । अप्यधः अधस्तादपि बहुधाग्रीवा नयनम् । एतौ ग्रीवोर्ध्वनयनं ग्रीवाधोनयनं चेति द्वौ दोषौ विंशः (२१) एकविंशश्च । 1 निष्ठीवनं वपुःस्पर्शो न्यूनत्वं दिगवेक्षणम् । मायाप्रायास्थितिश्चित्रा वयोपेक्षाविवर्जनम् ॥ १२० ॥ निष्ठीवनमित्यादि । अत्र उत्तरत्र च संज्ञा एव लक्षणानि, स्पष्टत्वात् । (२२) निष्ठीवनं श्लेष्म निरसनम् । ( २३ ) वपुःस्पर्शः शरीरामर्शः । (२४) न्यूनत्वं मात्रा हीनत्वम् । (२५) दिगवेक्षणं दिशामालोकनम् । ( २६ ) मायाप्रायास्थितिश्चित्रा मायाप्राया वञ्चनबहुला चित्रा वाश्चर्यभूता स्थितिः कायोत्सर्गेणावस्थानम् (२७) वयोपेक्षा विवर्जनं वार्धक्यमपेक्ष्य कायोत्सर्गस्य त्यजनम् । व्याक्षेपासक्तचित्तत्वं कालापेक्षाव्यतिक्रमः । लोभाकुलत्वं मूढत्वं पापकर्मै कसर्गता ॥ १२१ ॥ ( २८ ) व्याक्षेपासक्तचित्तत्वमितस्ततश्च गतचित्तत्वम् । (२९) कालापेक्षाव्यतिक्रमः कालापेक्षया कायोत्सर्गस्य विविधमंशभञ्जनम् । (३०) लोभाकुलत्वं गार्घ्यवशाद्विक्षेषः । ( ३१) मूढत्वं कृत्याकृस्याविवेचकत्वम् । ( ३२ ) पापकर्मैकसर्गता पापकर्मसु हिंसादिषूत्कृटोत्साहता | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy