________________
अष्टमोऽध्यायः।
लम्बितं नमनं मूनस्तस्योत्तरितमुन्नमः। उन्नमय्य स्थितिर्वक्षः स्तनदावत्स्तनोन्नतिः॥११५॥ (८) लम्बितं नाम दोषोस्ति । किं तत् ? नमनं नतिः । कस्य ? मूर्भः शिरसः। (९) उत्तरितं नाम दोषोस्ति । कोसौ ? उन्नम उन्नमनम् । कस्य ? तस्य मूर्भः । उन्नम इतीचन्तादल । (१०) स्तनोन्नतिर्नाम दोषः स्यात् । कासौ ? स्थितिः । किं कृत्वा ? उन्नमय्य उत्क्षिप्य । किं तत् ? वक्ष उरः । किंवत् ? स्तनदावत् शिशोः स्तनदायिन्याः स्त्रिया यथा। वायसो वायसवेव तिर्यगीक्षा खलीनितम् । खलीनाताश्ववद्दन्तघृष्ट्योवांधश्चलच्छिरः ॥११६॥ (११) वायसो नाम कायोत्सर्गिणो दोषः स्यात् । कासौ ? तिर्यगीक्षा तिर्यक् प्रेक्षणम् । कस्येव ? वायसस्येव काकस्य यथा । (१२) खलीनितं नाम दोषः स्यात् । किं तत् ? शिरः शीर्षम् । किं कुर्वत् ? चलत् । कथम् ? ऊर्ध्वाध ऊर्ध्वमधश्च । कया ? दन्तवृष्टया दन्तकटकटायनेन सह । किंवत् ? खलीनार्ताश्ववत् कविकाक्रान्तघोटकस्य यथा ।
ग्रीवां प्रसार्यावस्थान युगातगववागः। मुष्टिं कपित्थवद्बद्धवा कपित्थः शीर्षकम्पनम् ॥ ११७॥ शिरःप्रकम्पितं संज्ञा मुखनासाविकारतः। मूकवन्मूकिताख्यः स्यादङ्गुलीगणनाङ्गुली॥११८॥(युग्मम्) (१३) युगो नाम दोषः स्यात् । किं तत् ? अवस्थानं स्थितिः कायोत्सर्गिणः । किं कृत्वा ? प्रसार्य आयम्य । काम् ? ग्रीवां शिरोधिम् । किंवत् ? युगार्तगववत् स्कंधारूढयुगस्य बलीवर्दस्य यथा । (१४) कपित्थो नाम दोषः स्यात् । किं तत् ? अवस्थानं कायोत्सर्गिणः । किं कृत्वा ? बङ्घा । काम् ? मुष्टिम् । किंवत् ? कपित्थवत् कपित्थेन तुल्यम् । (१५) शीर्षकम्पनं नाम दोषः स्यात् । किं तत् ? शिरः प्रकम्पितम् । (१६) मूकिताख्यो मूकितं नाम दोषः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org