SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ६१६ अनगारधर्मामृते अथैकादशभिः श्लोकः कायोत्सर्गदोषान् द्वात्रिंशतं व्याचष्टेकायोत्सर्गमलोस्त्येकमुत्क्षिप्याप्रिं वराश्ववत् । तिष्ठतोऽश्वो मरुद्भूतलतावच्चलतो लता ॥ ११२ ॥ (१) कायोत्सर्गमलो दोषोऽश्वो घोटकाख्योऽस्ति । कस्य ? वन्दारोः । किंकुर्वतः ? तिष्ठतः स्थितिं कुर्वतः। किं कृत्वा ? एकमप्रिं पादमक्षिप्य उदस्य । एकेन भूतलमस्पृष्ठेत्यर्थः। किंवत् ? वराश्ववद वरतुरगस्येव । (२) लता नाम कायोत्सर्गमलोस्ति । किंकुर्वतः ? चलतः कम्पमानस्य वन्दारोः । किंवत् ? मरुद्भूतलतावद् वायुना कंपिताया वस्या यथा। एवमुत्तरत्रापि संबन्धः कर्तव्यः । स्तम्भः स्तम्भाधवष्टभ्य पट्टकः पट्टकादिकम् । आरुह्य मालो मालादि मूनोलम्ब्योपरि स्थितिः ॥११३॥ (३) स्तम्भो नाम मलोस्ति । कासौ ? स्थितिरवस्थानं कार्योत्सर्गिणः । किं कृत्वा ? अवष्टभ्य आलम्ब्य । किं तत् ? स्तम्भादि स्तम्भ कुड्यादि वा । (४) पट्टको नाम मलोस्ति । कासौ ? स्थितिः । किं कृत्वा? आरुह्य । किं तत् । पट्टकादिकं पढें कटादिकं वा। (५) मालो नाम मलोस्ति । कासौ स्थितिः । किं कृत्वा ? आलम्ब्य अवष्टभ्य । किं तत् ! मालादि सज रज्वादिकं वा । केन ? मूर्ती शिरसा। क ? उपरि अर्ध्वदेशे। शृङ्खलाबद्धवत् पादौ कृत्वा शृङ्खलितं स्थितिः। गुह्यं कराभ्यामावृत्त्य शवरीवच्छवर्यपि ॥ ११४ ॥ (६) शृङ्खलितं नाम दोषोस्ति । कासौ ? स्थितिः कायोत्सर्गिणः । किं कृत्वा ? कृत्वा । कौ ? पादौ । किंवत् ? शृङ्खलाबद्धवत् शृङ्खलया यत्रितस्य यथा। (७) शवरी नाम दोषोस्ति । कासौ ? स्थितिः । किंकृत्वा? आवृत्य आच्छाद्य । किं तत् ? गुह्यमवाच्यदेशम् । काभ्याम् ? कराभ्यां हस्ताभ्याम् । किंवत् । शवरीवत् किरातयुवतेर्यथा । अपिश्चार्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy