________________
अष्टमोऽध्यायः।
६१५
(२६) आलब्धं नाम दोषः स्यात् । या किम् ? या क्रिया आव. श्यककरणम् । कया ? उपध्यात्या उपकरणादिलाभेन । (२७) अनालब्धं नाम दोषः स्यात् । या किम् ? या क्रिया । कया ? तदाशया उपकरणाद्याकाङ्क्षया । (२८) हीनं नाम दोषः स्यात् । यत्किम् ? यन्यूनाधिकं मात्राहीनमित्यर्थः । (२९) उत्तरचूलिका नाम दोषः स्यात् । या किम् ? या चूला । केन ? चिरेण । वन्दनां स्तोककालेन कृत्वा तचूलिकाभूतस्यालोचनादेर्महता कालेन करणमित्यर्थः ।
मूको मुखान्तर्वन्दारोढुङ्काराद्यथ कुर्वतः। दुर्दरो ध्वनिनान्येषां स्खेन-च्छादयतो ध्वनीन् ॥ ११०॥ (३०) मूको नाम दोषः स्यात् । कस्य ? वन्दारोर्वन्दनशीलस्य । क ? मुखान्तर्मुखे वदने अन्तर्मध्ये । मुखमध्ये इत्यर्थः । अथ अथवा मूकः स्यात् । कस्य ? वन्दारोः । किं कुर्वतः ? कुर्वतः । किं तत् ? हुंकारादि हुंकारं च धुटिकादि । (३१) दुर्दरो नाम दोषः स्यात् । कस्य ! वन्दारोः । किं कुर्वतः ? छादयतः प्रतिबध्नतः । कान् ? ध्वनीन् शब्दान् । केषाम् ? अन्येषामपरवन्दारूणाम् । केन ? ध्वनिना शब्देन । किंविशिष्टेन ? स्वेनात्मीयेन ॥
द्वात्रिंशो वन्दने गीत्या दोषः सुललितादयः । इति दोषोज्झिता कार्या वन्दना निर्जरार्थिना ॥१११ ॥ (३२) सुललिताह्वयः सुललितं नाम दोषः स्यात् । क ? वन्दने। कया? गीत्या गानेन । पञ्चमस्वरेणेत्यर्थः । कतमोसावित्याह-द्वात्रिंशो द्वात्रिंशतः पूरणः । एतेन द्वात्रिंशतो देववन्दना दोषा इति सरयति । कार्या । कासौ ? वन्दना । केन ? निर्जरार्थिना । किंविशिष्टाः ? इति दोषोज्झिता एवंस्वरूपदोषैस्त्यक्ता । प्रकाराथों वा इतिशब्दः । तेनैवंप्रकाराः क्रियाकाण्डायुक्ताः। शिरोनांमोन्नाममूवोपरिकरभ्रमणगुर्वादेरग्रतो भूत्वा पाठोञ्चारणादयोपि वन्दनादोषास्त्याज्या इति बोधयति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org