________________
अनगारधर्मामृते
वार्तादिकथनम् । (२०) हेलितं नाम दोषः स्यात् । यत्किम् ? यदुपहासादि। उपहासो विप्लवकरणम् । आदिशब्देनोद्घट्टनादिग्रहणम् । केषाम् ? अन्येषामपरजनानाम् । (२१) त्रिवलितं नाम दोषः स्यात् । यत्किम् ? यत् कटिग्रीवाहृद्भङ्गः कट्या ग्रीवाया हृदयस्य च मोटनम् । नवा अथवा त्रिवलितं स्यात् । कासौ ? भृकुटिपूंकुटिः । ललाटे वलित्रयकरणम् ।
करामर्शोथ जान्वन्तः क्षेपः शीर्षस्य कुश्चितम् । दृष्टं पश्यन् दिशः स्तौति पश्यत्स्वन्येषु सुष्ट वा ॥१०७॥ (२२) कुञ्चितं नाम दोषः स्यात् । किंरूपम् ? करामर्शः। कस्य ? शीर्षस्य शिरसः। अथ अथवा कुञ्चितं स्यात् । कोसौ ? क्षेपः प्रक्षेपः । क ? जान्वन्तः जानुनोर्मध्ये । कस्य ? शीर्षस्य । (२३) दृष्टं नाम दोषः स्यात् । यत् किम् ? यत् स्तौति वन्दते पुरुषः । किं कुर्वन् ? पश्यन् आलोकमानः । काः ? दिशः ककुभः । वा अथवा दृष्टं स्यात् । यत्किम् ? यत् स्तौति । कथम् ? सुष्टु सुतराम् । केषु सत्सु ? अन्येषु गुर्वादिषु । किं कुर्वत्सु ? पश्यत्सु आलोकमानेषु । परेषु पश्यत्सु सोत्साहं वन्दते इत्यर्थः । यदित्यध्याहार्यः ।
अदृष्टं गुरुदृग्मार्गत्यागो वाऽप्रतिलेखनम् । विष्टिः संघस्येयमिति धीः संघकरमोचनम् ॥१०८॥ (२४) अदृष्टं नाम दोषः स्यात् । यः किम् ? यो गुरुङमार्गत्यागो गुरोदृष्टिपथवर्जनम् । वा अथवा अदृष्टं स्यात् । यत्किम् ? यदप्रतिलेखन पिच्छादिना प्रतिलेखनाकरणम्। (२५ ) संघकरमोचनं नाम दोषः स्यात् । या किम् ? या धीर्बुद्धिः । कथम् ? इति । किमिति ? इयं विष्टिहठात् कर्मविधापनम् । कस्य ? संघस्य ।
उपध्यात्या क्रियालब्धमनालब्धं तदाशया। हीनं न्यूनाधिकं चूला चिरेणोत्तरचूलिका ॥ १०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org