SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । ६१३ (१३) ऋद्धिगौरवं नाम दोषः स्यात् । कस्य ? वन्दारोर्वन्दनां साधुत्वेन कुर्वतः । कथम् ? इति एवंप्रकारेण । भावी भविष्यति । कोसौ ? गणश्चातुर्वर्ण्यश्रमण संघः । किंविशिष्टः ? भक्तो भक्तिकः । कस्य ? मे मम । (१४) गौरवं नाम दोषः स्यात् । किमात्मा ? स्पृहा वान्छा । क्व ? महिमनि माहात्म्ये । कस्य ? स्वस्यात्मनः । अथवा स्पृहा । क ? आहारादौ भोजनोपकरणादौ । स्याद्वन्दने चोरिकया गुर्वादेः स्तेनितं मलः । प्रतिनीतं गुरोराज्ञाखण्डनं प्रतिकूल्यतः ॥ १०४ ॥ (१५) स्तेनितं नाम मलो दोषः स्यात् । छ ? वन्दने वन्दनायां क्रियप्राणायाम् । कया ? चोरिकया चौर्येण । कस्य ? गुर्वादेर्गुरुप्रवर्युपाध्याप्रादेः । (१६) प्रतिनीतं नाम दोषः स्यात् । यत्किम् ? यदाज्ञाखण्डनम् । कस्य ? गुरोः । कस्मात् ? प्रतिकूल्यतः प्रतिकूलतया । प्रदुष्टं वन्दमानस्य द्विष्ठेऽकृत्वा क्षमां त्रिधा । तर्जितं तर्जनान्येषां स्वेन स्वस्याथ सूरिभिः ॥ १०५ ॥ (१७) प्रदुष्टं नाम दोषः स्यात् । कस्य ? वन्दमानस्य वन्दनां कुर्वतः । किं कृत्वा ? अकृत्त्वा । काम् ? क्षमां स्वयं क्षन्तव्यमकृत्वा तमक्षम यित्वा वा । कृतापराधस्य मनसि क्षमामनुत्पाद्येत्यर्थः । क ? द्विष्ठे कलहादिना द्वेषविषयीकृते । कथम् ? त्रिधा मनोवाक्कायैः । (१८) तर्जितं नाम दोषः स्यात् । या किम् ? या तर्जना प्रदेशिनीपरावर्तनेन भयोत्पादनम् । केन ? स्वेनात्मना । केषाम् ? अन्येषां शिक्षादीनाम् । अथ अथवा तर्जितं स्यात् । कोसौ ? तर्जना | कैः ? सूरिभिराचार्यादिभिः । कस्य ? स्वस्यात्मनः । सूरिभिरिति बहुवचनं गणस्य संसूचकम् । 1 शब्दो जल्पक्रियान्येषामुपहासादि हेलितम् । त्रिवलितं कटिग्रीवा हृद्भङ्गो भ्रुकुटिर्नवा ॥ १०६ ॥ ( १९ ) शब्दो नाम दोषः स्यात् । या किम् ? या जल्पक्रिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy