________________
अनगारधर्मामृते
(६) मतम्। किं तत् ? अङ्कुशितं नाम दोषः । किंलक्षणः ? अष्ठविन्यासः स्वाङ्गुष्ठस्थापनम् । क ? भाले ललाटे । किंवत् ? अङ्कशवत् मणिरूपेण । (७) कच्छपरिङ्गितं कूर्मवच्चेष्टितं नाम दोषः स्यात् । किंरूपम् ? रिला रिङ्खणम् । किंवत् ? कच्छपवत् कूर्मस्येव । कस्य ? वन्दारोः। किंविशिष्टस्य ? निषेदुषो निषण्णस्य । उपविष्टस्येत्यर्थः ॥
मत्स्योद्वर्त स्थितिमत्स्योद्वर्तवत् त्वेकपार्श्वतः । मनोदुष्टं खेदकृतिणुर्वायुपरि चेतसि ॥ १०१॥ (6) मत्स्योद्वत नाम दोषः स्यात् । तुर्विशेषे। या किम् ? या स्थितिरवस्थानम् । केन ? एकपार्श्वत एकपाधैन । कटिभागोद्वर्तनेनावस्थानमित्यर्थः । किंवत् ? मत्स्योद्वर्तवत् मत्स्योच्छलनवत् । (९) मनोदुष्टं नाम दोषः स्यात् । किमात्मा ? खेदकृतिराक्षेपकरणम् । क ? चेतसि । कथम् ? गुर्वाद्युपरि आचार्यादेरुपरिष्टात् ।
वेदिबद्धं स्तनोत्पीडो दोभ्यां वा जानुबन्धनम् । भयं क्रिया सप्तभयादिभ्यत्ता विभ्यतो गुरोः॥१०२॥ (१०) वेदिबद्धं वेदिकाबद्धं नाम दोषः स्यात् । किंरूपः ? स्तनोत्पीडः स्तनयोः प्रपीडनम् । तमेव प्रकारान्तरेणाह-वा अथवा वेदिकाबद्धं नाम दोषः स्यात् । किम् ? जानुबन्धनम् । काभ्याम् ? दोयो बाहुभ्याम् । योगपट्टरूपेण भुजाभ्यां जानुबन्धनमित्यर्थः। (११) भयं नाम दोषः स्यात् । या किम् ? या क्रिया आवश्यककरणम् । कस्मात् ? सप्तभयाद् मरणादिभयसप्तकाद्धेतोः । (१२) बिभ्यत्ता नाम दोषः स्यात् । या किम् ? या क्रिया । कस्य ? बिभ्यतः पुंसः। करसात् ? गुरोराचार्यात् । बिभ्यतः कर्म बिभ्यत्ता । बिभ्यद्दोष इत्यर्थः ।
भक्तो गणो मे भावीति वन्दारोब्रद्धिगौरवम् । गौरवं वस्य महिमन्याहारादावथ स्पृहा ।। १०३ ॥ १ 'अडशोऽस्त्री सूणिः स्त्रियाम्' इत्यमरः ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org