________________
अष्टमोऽध्यायः ।
अथ चतुर्दशभिः श्लोकैर्द्वात्रिंशद्वन्दनादोपलक्षयतिअनाहतमतात्पर्यं वन्दनायां मदोद्धृतिः । स्तब्धमत्यासन्नभावः प्रविष्टं परमेष्ठिनाम् ॥ ९८ ॥
' इति दोषोज्झिता कार्या वन्दना निर्जरार्थिना' इति गत्वा संबन्धः कर्तव्यः । तानेव वन्दनादोषांलक्षणतोऽनादृतमित्यादिना लक्षयति । मल इति मध्यदीपकेन दोष इत्यन्तदीपकेन वा योज्यम् । ( 1 ) अनादृतं नाम वन्दनायां प्रथमो दोषः स्यात् । किं लक्षणम् ? अतात्पर्य समस्तादर निर्मुक्तत्वम् । सा वन्दना परा प्रधानं यस्यासौ तत्परः । तत्परस्य कर्म तात्पर्यम् । न तात्पर्य ( मतात्पर्यम् ) (२) स्तब्धं नाम वन्दनायां द्वितीयो दोषः स्यात् । किसात्मकम् ? मदोद्धतिदाष्टक वशीकृतत्वम् । मदो जात्यादिकृतोहंकारः । मदैरष्टाभिरुद्धतिरात्मोत्कर्षसंभावना । (३) प्रविष्टं नाम वन्दनायां तृतीयो दोषः स्यात् । किं स्वभावः ? अत्यासन्नभावः । केषाम् ? परमेष्ठिनामर्हदादीनामतिमात्रमासन्नो निकटोऽत्यासन्नः । तस्य भावः । अति निकटत्वमित्यर्थः ।
६११
हस्ताभ्यां जानुनोः स्वस्य संस्पर्शः परिपीडितम् । दोलायितं चलन् कायो दोलावत् प्रत्ययोथवा ॥ ९९ ॥
(४) परिपीडितं नाम वन्दनायां चतुर्थो दोषः स्यात् । किंरूपः ? संस्पर्शः [: समन्तात् स्पर्शनम् । कयोः ? जानुनोरष्ठीवतोः । काभ्याम् ? हस्ताभ्याम् । कस्य ? स्वस्यात्मनः । एवमुत्तरत्रापि संबन्धः कर्तव्यः । (५) दोलायितं नाम दोषः स्यात् । किमात्मा ? कायः शरीरम् । किं कुर्वन् ? चलन् गतायातं कुर्वन् । किंवत् ? दोलावद् दोलायामिव दोलारूढस्येव वा । इममेव दोषं प्रकारान्तरेण व्याचष्टे । अथवा दोलायितं नाम दोषः स्यात् । किमात्मा ? प्रत्ययः । किं कुर्वन् ? चलन् । चलन्ती प्रतीतिः संशयः इत्यर्थः । स्तुत्ये स्तवने तत्फले वा संदेह इति यावत् ।
भालें कुशवदङ्गुष्ठविन्यासोऽङ्कुशितं मतम् । निषेदुषः कच्छपवद्रिखा कच्छपरिङ्गितम् ॥ १०० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org