________________
अनगारधर्मामृते
1
कर्मनिर्जरणलक्षणं तीर्थकरत्वादिपुण्यार्जनं चेच्छता । किं कृत्वा ? क्षमयित्वैव नियमेन क्षमां कारयित्वा । कम् ? तं कालुष्यविषयम् । येन किम् । येन जातं सम्पन्नम् । किं तत् ? कालुष्यं क्रोधाद्या वेशाच्चित्तस्य क्षोभः । येनेति करणे सहार्थे वा तृतीया । उक्तं च
६१०
येन केनापि संपन्नं कालुष्यं दैवयोगतः । क्षमयित्वैव तं त्रेधा कर्तव्यावश्यक क्रिया ॥
न केवलं व्यावर्त्य च प्रच्याव्य । काम् ? चिन्तामन्तःकरणप्रवृत्तिम् । कस्मात् ? सङ्गात् परिग्रहात् । किंविशिष्टात् ? सर्वतः सर्वस्मात् । प्रकृतादन्यत्र चिन्तां निरुध्येत्यर्थः ।
अमलमिति विशेषणं व्याचष्टे -
दोषैर्द्वात्रिंशता स्वस्य यद्युत्सर्गस्य चोज्झितम् । त्रियोगशुद्धं क्रमवन्निर्मलं चितिकर्म तत् ॥ ९७ ॥
तन्निर्मलं निर्दोषं चितिकर्म भण्यते पूर्वसूरिभिः । चितेस्तीर्थकरत्वादिपुण्यार्जनस्य कर्म क्रिया जिनादिवन्दनेत्यर्थः । यत्किम् ? यदुज्झितं त्यक्तं भवति । कैः ? दोषैरनादृतादिभिः । कतिभिः ? द्वात्रिंशता द्वात्रिंशत्संरूयैः पैः । कस्य ? स्वस्य चितिकर्मणः संबन्धिभिः । न केवलं व्युत्सर्गस्य च कायोत्सर्गस्य दोषैवटकादिभिरुज्झितम् । पुनः किंविशिष्टम् ? त्रियोगशुद्धम् | त्रयो योगा मनोवाक्कायव्यापाराः शुद्धाः कालुष्यरहिता यस्मिन् तत् । वाहिताझ्या दित्वात्समासः । पुनरपि किंविशिष्टम् ? क्रमवत् प्रशस्तक्रमम् । क्रमविशुद्धमित्यर्थः । उक्तं च
दुओणदं जहाजादं बारसावत्तमेव य । चदुस्सिरं तिसुद्धं च किदियम्मं पउज्जदे ॥ तिविहं तियरण बुद्धं मयरहियं दुविहठाणपुणरुत्तं । विणएण कमविसुद्धं किदियम्मं होइ कायव्वं ॥ किदियम्मं पि कुणतो ण होदि किदियस्मि णिजराभागी । बत्तीसाणण्णदरंसाहुट्ठाणं विराहिंतो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org