________________
अष्टमोऽध्यायः ।
६०९
करौ हस्तौ नम्रौ व्यङ्गः प्रणामोऽवाचि । तथा ककरं मस्तकहस्तं नम्र ज्यङ्गः प्रणामोऽवाचि । कं च करौ च ककरमिति समाहारः । तथा जानुकरं ननं चतुरङ्गः प्रणामोवाचि। जानुनी च करौ च जानुकरम् । तथा ककरजानु च मस्तकहस्तजानु ननं पञ्चाङ्गः प्रणामोवाचि । कं च करौ च जानुनी चेति समाहारद्वन्द्वः। एकं च द्वे च त्रीणि च चत्वारि च पञ्च च एकद्वित्रिचतुःपञ्च । तान्यङ्गान्यवयवा यत्र प्रणामे सोयमेकद्वित्रिचतुःपञ्चाङ्गः । एकाङ्गो ब्यङ्गस्त्यङ्गश्चतुरङ्गः पञ्चाङ्गः क्रमेणेत्यर्थः । तथा स कायिकः प्रणामः क्रियेत कृतिकर्मकारिभिः । कथम् ? यथास्थानं स्थानस्थानतिक्रमेण । उक्त च
मनसा वचसा तन्वा कुरुते कीर्तनं मुनिः। शानादीनां जिनेन्द्रस्य प्रणामस्त्रिविधो मतः॥ एकाङ्गो नमने मूनों व्यङ्गः स्यात् करयोरपि । व्यङ्गः करशिरोनामे प्रणामः कथितो जिनैः॥ करजानुविनामेऽसौ चतुरङ्गो मनीषिभिः। करजानुशिरोनामे पञ्चाङ्गः परिकीर्तितः॥ प्रणामः कायिको ज्ञात्वा पञ्चधेति मुमुक्षुभिः। विधातव्यो यथास्थानं जिनसिद्धादिवन्दने । क्रियाप्रयोगविधि नियमयन्नाहकालुष्यं येन जातं तं क्षमयित्वैव सर्वतः। सङ्गाच चिन्ता व्यावर्त्य क्रिया कार्या फलार्थिना ॥१६॥ कार्या कर्तव्या ।कासौ ? क्रिया कृतिकर्म । केन ? फलार्थिना फलं १ यूनितं यथाजातं द्वादशावर्तमेव च ।
चतु:शिरं त्रिशुद्धं च कृतिकर्म प्रयुज्यते ।। त्रिविधं त्रिकरणशुद्धं मदरहितं द्विविधस्थानं पुनरुक्तम् । विनयेन कर्मविशुद्धं कृतिकर्म भवति कर्तव्यम् ॥ कृतिकर्मापि कुर्वन् न भवति कृतिकर्म निर्जराभागी। द्वात्रिंशदन्यतरं साधुस्थानं विराधमाणः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org