________________
अनगारधर्मामृते
क्रियाकाण्डप्रसिद्धां स्तवनक्रियाम् । केषु सत्सु ? चैत्यनिर्वाणयोगिनन्दीश्वरेषु । किं क्रियमाणेषु ? वन्द्यमानेषु वन्दनाविषयीक्रियमाणेषु चैत्यवन्दनायां निर्वाणवंदनायां, योगिवंदनायां, नंदीश्वरचैत्यवंदनायां चेत्यर्थः ।
६०८
स्वमतेन परमतेन च नतिनिर्णयार्थमाह
द्वे साम्यस्य स्तुतेश्चादौ शरीरनमनान्नती | वन्दनाद्यन्तयोः कैश्चिन्निविश्य नमनान्मते || ९३ ॥
कार्ये इत्यध्याहारः । कार्ये कर्तव्ये । के ? नती । कति संख्ये ? द्वे | कस्मात् ? शरीरनमनात् पञ्चाङ्गप्रणमनात् । भूमिस्पर्शादित्यर्थः । क्व ? आदौ प्रथमतः | कस्य ? साम्यस्य सामायिकदण्डकस्य । न केवलं - स्तुतेश्चतुवैिशतिस्तवस्य । मतान्तरमाह - मते इष्टे । के ? द्वे नती । कैः ? कैश्चित् स्वामिसमन्तभद्रादिभिः । कस्मात् ? नमनात् प्रणमनात् । किं कृत्वा ? निविश्य उपविश्य । कयोः ? वन्दनाद्यन्तयोर्वन्दनायाः प्रारम्भे समाप्तौ च । यथाहुस्तत्र भगवन्तः श्रीमत्प्रभेन्दुदेवपादा रत्नकरण्डकटीकायां चतुरावर्तत्रितय इत्यादिसूत्रे द्विनिषद्य इत्यस्य व्याख्याने "देववन्दनां कुर्वता हि प्रारम्भ समाप्तौ चोपविश्य प्रणामः कर्तव्यः' इति ।
प्रणामभेदनिर्णयार्थ लोकद्वयमाह
योगैः प्रणामस्त्रेधार्हज्ज्ञानादेः कीर्तनात्रिभिः ।
कं करौ ककरं जानुकरं ककरजानु च ॥ ९४ ॥ नम्रमेकद्वित्रिचतुःपञ्चाङ्गः कायिकः क्रमात् । प्रणामः पञ्चधावाचि यथास्थानं क्रियते सः ॥ ९५ ॥ युग्मम्
1
भवति । कोसौ ? प्रणामः । कतिधा ? त्रेधा त्रिविधः । कैः ? योगैर्मनोवाक्कायव्यापारैः । कतिभिः ? त्रिभिः । कस्मात् ? कीर्तनात् संशब्दनमा श्रित्य | कस्य ? अर्हज्ज्ञानादेः अर्हतो जिनेन्द्रस्य ज्ञानमादिर्यस्य सिद्धज्ञाना देस्तदज्ज्ञानादिस्तस्य । तत्र तावत् कायिकः शारीरः प्रणामोऽवाचिउक्तः । कतिधा ? पञ्चधा । कस्मात् ? क्रमात् । किं लक्षणम् ? कं मस्तकं नम्रं नमनशीलमेकाङ्गः प्रणामोवाचि । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org