________________
अष्टमोऽध्यायः।
६०७
यत् क्रियते । किं तत् ? शिरो मस्तकम् । किंविशिष्टम् ? पाणिकुडझ लाई पाण्योहस्तयोः कुड्मलो मुकुलाकारतापाणि कुशलः । स एवाङ्क. श्चिह्नं यस्य तदेवम् । किं कुर्वत् ? नन्नमद् भृशं पुनः पुनर्वा नमत् । प्रणमदिति वा पाठः । कया ? भक्त्या । कथम् ? प्रत्यावर्तत्रयम् आवर्तत्रयमावर्तत्रयं प्रति।
चैत्यभक्त्यादिषु प्रकारान्तरेणाप्यावर्तशिरसा संभवोद्देशार्थमाहप्रतिभ्रामरि वार्चादिस्तुतौ दिश्येकशश्वरेत् ।। त्रीनावान् शिरश्चैकं तदाधिक्यं न दुष्यति ॥९१ ॥ वाशब्देन पक्षान्तरं सूचयति । चरेद्वा अनुतिष्ठेदावश्यककारी। कान् ? आवर्तान् । कति ? त्रीन् । न केवलं, शिरश्च करमुकुलाङ्कितशिरस्करणम् । किंविशिष्टम् ? एकम् । क ? अर्चादिस्तुतौ चैत्यादिभक्तौ । कस्याम् ? दिशि पूर्वादौ । कथम् ? एकश एकैकस्याम् । कथम् ? प्रतिभ्रामरि एकैकस्मिन् प्रदक्षिणीकरणे । उक्तं च
चतुर्दिक्षु विहारस्य परावर्तास्त्रियोगगाः। प्रतिभ्रामरि विशेया आवर्ता द्वादशापि च ॥ ननु चैवमावर्तशिरसामाधिक्यं दोषाय भविष्यतीत्याशङ्कायामिदमाहन दुष्यति न दुष्टं भवति । किं तत् ? तदाधिक्यमावर्तानां शिरसां चोक्तप्रमाणादधिकीकरणं दक्षिणात्रये तत्संभवात् । उक्तं च चारित्रसारे
“एकस्मिन् प्रदक्षिणीकरणे चैत्यादीनामभिमुखीभूतस्यावर्तत्रयैकावनमने कृते चतसृष्वपि दिक्षु द्वादशावर्ताश्चतस्नः शिरोवनतयो भवन्ति । आवर्तानां शिरःप्रणतीनामुक्तप्रमाणादाधिक्यमपि न दोषाय" इति । अस्यैवार्थस्य समर्थनार्थमाहदीयते चैत्यनिर्वाणयोगिनन्दीश्वरेषु हि । वन्द्यमानेष्वधीयानैस्तत्तद्भक्तिं प्रदक्षिणा ।। ९२ ॥ हि यस्माद् दीयते विधीयते । कासौ ? प्रदक्षिणा भ्रामरी । कैः ? संयतैः । किं कुर्वाणैः ? अधीयानैः पठद्भिः। काम् ? तत्तद्भक्ति तां तां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org