________________
६०६
अनगारधर्मामृते
वृद्धव्यवहारानुरोधार्थ हस्तपरावर्तनलक्षणानावर्तानुपदिशतित्रिः संपुटीकृतौ हस्तौ भ्रमयित्वा पठेत् पुनः। साम्यं पठित्वा भ्रमयेत्तौ स्तवेप्येतत्तदाचरेत् ।। ८९ ॥ पठेदुच्चारयेदावश्यककारी । किं तत् ? साम्यं णमो अरहंताणं' इत्यादि सामायिकदण्डकम् । किं कृत्वा ? भ्रमयित्वा परावर्त्य । कौ ? हस्तौ। किंविशिष्टौ ? संपुटीकृतौ मुकुलितौ । कथम् ? त्रिस्त्रीन्वारान् । तथा भ्रमयेदावर्तयेत् । कौ ? तौ संपुटीकृतौ हस्तौ । कथम् ? त्रिस्त्रीन वारान् । कथम् ? पुनः पश्चात् । किं कृत्वा ? पठित्वा उच्चार्य । किं तत् ? साम्यम् । एतच्च विधानमाचरेत्तपस्वी । क ? स्तवेपि थोस्सामि इत्यादिचतुविशतिस्तवदण्ड. केपि । निःसंपुटीकृतौ हस्तौ भ्रमयित्वा स्तवं पठेत्, स्तवं पठित्वा पुनस्त्रिः संपुटीकृतौ हस्तौ चावर्तयेदित्यर्थः । उक्तं च चारित्रसारे व्युत्सर्गतपोवर्णनप्रस्तावे
'क्रियां कुर्वाणो वीर्योपगृहनमकृत्वा शक्त्यनुरूपतः स्थितेन असक्तः सन् पर्यङ्कासनेन वा त्रिकरणशुद्ध्या संपुटीकृतकरः क्रियाविज्ञापनपूर्वक सामायिकदण्डकमुचारयन् तदावर्तत्रयं यथाजातशिरोनमनमेकं भवति । अनेन प्रकारेण सामायिकदण्डकसमाप्तावपि प्रवर्त्य यथोक्तकालं जिनगुणानुस्मरणसहितं कायव्युत्सर्ग कृत्वा द्वितीयदण्डकस्यादावन्ते च तथैव प्रवर्तताम् । एवमेकस्य कायोत्सर्गस्य द्वादशावर्ताश्चत्वारि शिरोवनमनानि भवन्ति' इत्यादि। शिरोलक्षणमाहप्रत्यावर्तत्रयं भक्त्या नन्नमत् क्रियते शिरः। यत्पाणिकुइमलाकं तत् क्रियायां साच्चतुःशिरः ॥९०॥ तत् स्यात् । किं तत् ? शिरः । कथम् ? चतुश्चतुरो वारान् । सामायिकदण्डकस्यादावन्ते च तथा स्तवदण्डकस्य चावर्तत्रयप्रयोगोत्तरकालं शिरोवनमनविधानात् । अथवा चतुर्णा शिरसां समाहारश्चतु:शिर इति व्याख्येयम् । कस्याम् ? क्रियायां चैत्यभक्त्यादिकायोत्सर्गविषये । यत्किम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org