________________
अष्टमोऽध्यायः ।
६०५
हारद्वन्द्वः । किंविशिष्टम् ? संयतं निरुद्धपापव्यापारम् । क ? आद्यन्ते प्रारम्भ समाप्तौ च । आदिश्चान्तश्चेति आद्यन्तं इतिसमाहारः । कस्य ? साम्यस्य णमो अरहंताणं' इत्यादिसामायिकदण्डकस्य । न केवलं, स्तवस्य च 'थोस्सामि' इत्यादिदण्डकस्य । मनोङ्गगीः संयतमिति वा समस्तम् । तत्र मनोङ्गगिरां संयतं संयमनं मनोङ्गगीः संयतमिति समासः । सामायिकदंडकस्य प्रारम्भे समाप्तौ च मनोङ्गगीः संयतं परावर्त्यम् । स्तवदण्डस्य च प्रारम्भे समाप्तौ च मनोङ्गगीः संयतं परावर्त्यमित्यर्थः ।
तद्यथा-
सामायिकदण्डस्यादौ क्रियाविज्ञापनविकल्पत्यागेन तदुच्चारणं प्रति मनसः प्रणिधानं संयतमनः परावर्तनमुच्यते । तथा भूमिस्पर्शलक्षणावनतिक्रियावन्दनामुद्रात्यागेन पुनरुत्थितस्य मुक्ताशुक्तिमुद्राकृतहस्तद्वयपरिभ्रमणत्रयं संयतकायपरावर्तनमाख्यायते । चैत्यभक्तिकायोत्सर्गे करोमीत्याद्युच्चारणविरामेण 'णमो अरिहंताणं, इत्याद्युच्चारणकरणं संयतवाक्परावर्तनमभिधीयते । एवं सामायिकदण्डकस्यादौ शुभयोगपरावर्तलक्षणमावर्तत्रयं विज्ञेयम् । एवमेव च यथास्वं साम्यदण्डकस्यान्ते तत्रयं कल्प्यम् । तथैव च स्तवदण्डकस्यादावन्ते च पृथक् तत्रयमवसेयम् । इति समुदितानि चत्वारि तत्रयाणि द्वादशावर्ता एकस्मिन् कायोत्सर्गे भवन्ति । एतच्च भगवसुनन्दि सैद्धान्तदेवपादैराचारटीकायां 'दुओ पदं जहाजादं, इत्यादिसूत्रे व्याख्यातं द्रष्टव्यम् । तथैव चान्वाख्यातं क्रियाकाण्डेपि
।
द्वे ते साम्यनुत्यादौ भ्रमास्त्रिस्त्रिस्त्रियोगगाः । त्रित्रिभ्रमे प्रणामश्च साम्ये स्तवे मुखान्तयोः ॥
एतदेवचामितगतिरप्यन्वाख्यात्
कथिता द्वादशावर्ता वपुर्वचनचेतसाम् । स्तव सामायिकाद्यन्तपरावर्तनलक्षणाः ॥
इदं चात्राचारटीका व्याख्यानमवधार्यम् —
चतसृषु दिक्षु चत्वारः प्रणामा एकस्मिन् भ्रमणे । एवं त्रिषु भ्रमणेषु द्वादश भवन्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org