________________
अनगारधर्मामृते
संलग्नाङ्गुलिकावित्यर्थः । कस्य ? स्थितस्य । पूर्ववदध्युदरं कूपरौ न्यस्य । उक्तं च
मुक्ताशुक्तिर्मता मुद्रा जठरोपरि कूर्परम् । ऊर्ध्वजानोः करद्वन्द्वं संलग्नाङ्गुलि सूरिभिः ॥ मुद्राणां यथाविषयं प्रयोगनिर्णयार्थमाहस्वमुद्रा वन्दने मुक्ताशुक्तिः सामायिकस्तवे । योगमुद्रास्यया स्थित्या जिनमुद्रा तनूज्झने ॥ ८७ ॥ प्रयोक्तव्येत्युपस्कारः । प्रयोक्तव्याऽऽवश्यककारिणा। कासौ ? स्वमुद्रा वन्दनामुद्रा । क ? वन्दने जयति भगवानित्यादिवन्दनायां क्रियमाणायाम् । तथा मुक्ताशुक्तिर्मुद्रा प्रयोक्तव्या। क ? सामायिकस्तवे सामायिकं णमो अरहंताणं' इत्यादि दण्डकं, स्तवः 'थोस्सामि' इत्यादिदण्डकः । सामायिकं च स्तवश्च सामायिकस्तवमिति समाहारद्वन्द्वः। सामायिकदण्डके चतुर्विंशतिस्तवदण्डके च मुक्ताशुक्तिर्मुद्रा प्रयोज्येत्यर्थः । तथा प्रयोक्तव्या । कासौ ? योगमुद्रा क ? तनूज्झने कायोत्सर्गे क्रियमाणे । कया ?
आस्यया । आसमास्या, तया । उपवेशनेनेत्यर्थः । तथा प्रयोक्तव्या। कासौ? जिनमुद्रा। क ? तनूज्झने क्रियमाणे । कया ? स्थित्या उद्भीभावेन ।
आवर्तस्वरूपनिरूपणार्थमाहशुभयोगपरावर्तानावर्तान् दादशाहराद्यन्ते। साम्यस हि स्तवस्य च मनोङ्गगी संयतं परावर्त्यम्।।८८॥
आहुर्बुवन्त्याचार्याः । कान् ? आवर्तान् । किंलक्षणान् ? शुभयोगपरावर्तान् । कति? द्वादश शुभा हिंसादिरहितत्वात् प्रशस्ता योगा मनोवाक्कायव्यापाराः शुभयोगाः । तेषां परावर्ताः पूर्वावस्थापरित्यागेनावस्थान्तरप्रापणानि शुभयोगपरावर्तास्तान् । अस्यैव समर्थनार्थमाह-आद्यन्त इत्यादि । हि यस्मात् परावर्त्यमवस्थान्तरं नेतव्यम् । वन्दनोद्यतैरिति शेषः । किं तत् ? मनोङ्गगीश्चित्तकायवाचम् । मनश्चाङ्गं च गीश्चेति समा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org