________________
अष्टमोऽध्यायः।
कृतिकर्मयोग्यं मुद्राचतुष्टयं व्याचिख्यासुर्जिनमुद्रायोगमुद्रयोलक्षणमुन्मुद्रयतिमुद्राश्चतस्रो व्युत्सर्गस्थिति नीह यौगिकी। न्यस्तं पद्मासनाधङ्के पाण्योरुत्तानयोर्द्वयम् ॥ ८५॥ मुद्राश्चतस्रो भवन्ति । इह इमासु चतसृषु मुद्रासु मध्ये जैनी जिनमुद्रा भवति । किंलक्षणा ? व्युत्सर्गस्थितियुत्सर्गेण कायोत्सर्गेण स्थितिरुनीभावः । सा च प्रलम्बितभुजेत्यादिना प्रागुक्ता । उक्तं च
जिनमुद्रान्तरं कृत्वा पादयोश्चतुरङ्गुलम् ।
ऊर्ध्वजानोरवस्थानं प्रलम्बितभुजद्वयम् ॥ तथेह योगिकी योगमुद्रा भवति । किंलक्षणा ? पद्मासनाद्यके पद्मासन पर्यङ्कासनवीरासनानामुत्सङ्गे उत्तानयोः पाण्योर्हस्तयोर्द्वयं न्यस्तं स्थापितम् । उक्तं च
जिनाः पद्मासनादीनामङ्कमध्ये निवेशनम् ।
उत्तानकरयुग्मस्य योगमुद्रां बभाषिरे ॥ वन्दनामुद्रां मुक्ताशुक्तिमुद्रां च निर्दिशतिस्थितस्याध्युदरं न्यस्य कूपरौ मुकुलीकृतौ । करौ स्याद्वन्दनामुद्रा मुक्ताशुक्तियुताङ्गुली ॥ ८६ ॥ वन्दनामुद्रा स्यात् । किंलक्षणा? करौ हस्तौ । किंविशिष्टौ ? मुकुलीकृतौ मुकुलितौ । कस्य ? पुंसः । किंविशिष्टस्य ? स्थितस्य उनीभूतस्य । किं कृत्वा ? न्यस्य निक्षिप्य । कौ ? कूर्परौ कुह निके । कथम् । अध्युदरमुदरस्योपरि । उक्तं च
मुकुलीकृतमाधाय जठरोपरि कूर्परम् । स्थितस्य वन्दनामुद्रा करद्वन्द्वं निवेदिता॥ तथा मुक्ताशुक्तिर्नाम मुद्रा स्यात् । किंलक्षणा ? मुकुलीकृतौ करावेव । किंविशिष्टौ ? युताङ्गुली युताः संस्थान विशेषेण संलग्ना अङ्गुलयो ययोस्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org