________________
६०२
अनगारधर्मामृते
ऊर्वोरुपरि कुर्वाणः पादन्यासं विधानतः। वीरासनं यतिर्धत्ते दुष्करं दीनदेहिनः॥ अन्ये त्वाहुःजवाया जङ्घया श्लिष्टे मध्यभागे प्रकीर्तितम् । पद्मासनं सुखाधायि सुसाधं सकलैर्जनैः॥ बुधैरुपर्यधोभागे जङ्घयोरुभयोरपि । समस्तयोः कृते शेयं पर्यङ्कासनमासनम् ॥ ऊर्वोरुपरि निक्षेपे पादयोर्विहिते सति । वीरासनं चिरं कर्तुं शक्यं धीरैर्न कातरैः॥ अपि च,जघाया मध्यभागे तु संश्लेषो यत्र जङ्घया। पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥ स्याजधयोरधोभागे पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः॥ वामोंघ्रिदक्षिणोरूर्व वामोरूपरि दक्षिणः। क्रियते यत्र तद्धीरोचितं वीरासनं स्मृतम् ॥ वन्दनायां स्थान विशेषनिर्णयार्थमाहस्थीयते येन तत्स्थानं वन्दनायां द्विधा मतम् । उद्भीभावो निषद्या च तत्प्रयोज्यं यथाबलम् ॥ ८४ ॥ वन्दारुणा येन करणभूतेन स्थीयते तन्मतम् । किं तत् ? स्थानम् । कतिधा ? द्विधा । कस्याम् ? वन्दनायाम् । किं किमित्याह-उद्भीभाव अर्ध्वजानुत्वम् । निषद्या चोपवेशनम् । तत् स्थानं वन्दारुणा प्रयोज्यं प्रयोक्तव्यम् । कथम् ? यथाबलं स्वशक्त्यनतिक्रमेण । उक्तं च
स्थीयते येन तत्स्थानं द्विप्रकारमुदाहृतम् । वन्दना क्रियते यस्मादुद्भीभूयोपविश्य वा ॥ .......
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org