________________
अष्टमोऽध्यायः। wimmmmmmmmmmmwar विविक्तःप्रासुकः सेव्यः समाधानविवर्धकः। देवर्जुदृष्टिसंपातवर्जितो देवदक्षिणः ॥ जनसंचारनिर्मुक्तो ग्राह्यो देशो निराकुलः।
नासन्नो नातिदूरस्थो सर्वोपद्रववर्जितः ॥ कृतिकर्मयोग्यं पीठमाचष्टेविजन्त्वशब्दमच्छिद्रं सुखस्पर्शमकीलकम् । स्थेयस्तार्णायधिष्ठेयं पीठं विनयवर्धनम् ॥ ८२॥ वन्दनासिद्धये तदुद्यतेनाधिष्ठेयमाश्रयणीयम् । किं तत् ? पीठमासनम् । किंविशिष्टम् ? तार्णादि तृणकाष्टशिलामयम् । पुनः किंविशिष्टम् ? विजन्तु मत्कुणादिप्राणिरहितम् । तथा अशब्दं निःशब्दकम् । तथा अच्छिद्रं निश्छिद्रम् । तथा सुखस्पर्श सुखोऽकष्टः स्पर्शो यस्य तदेवम् । तथा अकीलकं कीलरहितम् । तथा स्थेयो निश्चलम् । तथा विनयवर्धनमुन्नतोद्धतत्वादिदोषरहितम् । वन्दनायोग्यं पद्मासनादित्रयं लक्षयतिपद्मासनं स्थितौ पादौ जङ्घाभ्यामुत्तराधरे । ते पर्यङ्कासनं न्यस्तावूर्वो वीरासनं क्रमौ ॥ ८३ ।। पद्मासनं भवति । को ? पादौ । किंविशिष्टौ ? श्रितौ संश्लिष्टौ । काभ्याम् ? जङ्घाभ्याम् । तथा पर्यङ्कासनं भवति । के ? ते जधे । किंविशिष्टे ? उत्तराधरे उत्तराधर्येण स्थापिते इत्यर्थः । तथा वीरासनं भवति । को ? क्रमौ पादौ । किविशिष्टौ ? न्यस्तौ। कयोः ? ऊर्वोः सक्योरुपरि । उक्तं च
त्रिविधं पद्मपर्यवीरासनस्वभावकम् । आसनं यत्नतः कार्य विद्धानेन वन्दनाम् ॥ तत्र पद्मासनं पादौ जयाभ्यां श्रयतो यतेः। तयोरुपर्यधोभागे पर्यङ्कासनमिष्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org