________________
अनगारधर्मामृते
मुहूर्तत्रितयं कालः संध्यानां त्रितये बुधैः।
कृतिकर्मविधेर्नित्यः परो नैमित्तिको मतः॥ कृतिकर्मणि योग्यासनावसायार्थमाहवन्दनासिद्धये यत्र येन चास्ते तदुद्यतः। तद्योग्यमारुनं देशः पीठं पद्मासनाद्यपि ॥ ८०॥ वन्दनासिद्ध वन्दनाया निष्पत्त्यर्थं तदुद्यतो वन्दनोद्युक्तः साधुर्यत्र देशे पीठे चास्ते तिष्ठति तद्योग्यमासनं देशः पीठं च भग्यते। येन च पद्मासनादिना वन्दनासिद्धये तदुद्यत आस्ते तद्योग्यमासनं पद्मासनाद्यपि भण्यते इत्यर्थः । उक्तं च
आस्यते स्थीयते यत्र येन वा वन्दनोद्यतैः। तदासनं विबोद्धव्यं देशपद्मासनादिकम् ॥ . वन्दनायोग्यं प्रदेशमुपदिशतिविविक्तः प्रासुकस्त्यक्तः संक्लेशक्लेशकारणैः। पुण्यो रम्यः सतां सेव्यः श्रेयो देशः समाधिचित् ।। ८१॥ वन्दनासिद्धये तदुद्यतेन देशः प्रदेशः श्रेय आश्रयणीयः । कीदृशः ? विविक्तः शुद्धोऽसंस्तुतलोकरहितश्च तथा प्रासुकः संमूर्छनारहितः। तथा त्यक्तः। कैः ? संक्लेशक्लेशकारणैः संकेशकारणै-रागद्वेषादिभिः क्लेशकारणैश्च परीषहोपसगैः । तथा पुण्यः सिद्धक्षेत्रादिरूपः । तथा रम्यश्चित्तनिर्वृत्तिकरः । तथा सतां मुमुक्षूणां सेव्यः सेवनीयः । तथा समाधिचित प्रशस्तध्यानवर्धकः । उक्तं च
संसक्तः प्रचुरच्छिद्रस्तृणपाश्वादिदूषितः। विक्षोभको हृषीकाणां रूपगन्धरसादिभिः॥ परीषहकरो दंशशीतपातातपादिभिः। असंबद्धजनालापः सावद्यारम्भगर्हितः॥ आभूतोमनोऽनिष्टः समाधाननिषूदकः। योऽशिष्टजनसंचारः प्रदेशं तं विवर्जयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org