________________
अष्टमोऽध्यायः।
५९९
अभ्यासात् पक्कविज्ञानः कैवल्यं लभते नरः । आवश्यकप्रकरणम्। अथ षडावश्यकशेषं संगृह्णन् कृतिकर्मसेवायां श्रेयोर्थिनं व्यापारयतियोग्यकालासनस्थानमुद्रावर्तशिरोनति । विनयेन यथाजातः कृतिकर्मामलं भजेत् ॥ ७८ ॥ योग्याः समाधये प्रभवन्त्यः । यथाविहिता इत्यर्थः । तथैव चोत्तरप्रबन्धेनानुपूर्वशो व्याख्यास्यन्ते । यथाजातो बाह्याभ्यन्तपरिग्रहचिन्ताव्यावृत्तः संयमग्रहणक्षणे निर्ग्रन्थत्वेन पुनरुत्पादात् । कृतिकर्म कृतेः पापकर्मच्छेदनस्य कर्म अनुष्ठानम् । भजेत् सेवेत श्रेयोर्थी । किं तत् ? कृतिकर्म। केन ? विनयेन प्रश्रयेण । किंविशिष्टः सन् ? यथाजातः। किंविशिष्टम् ? योग्येत्यादि । कालश्चासनं च स्थानं च मुद्राश्चावतश्च शिरश्च नतिश्च कालासनस्थानमुद्रावर्तशिरोनतयः । योग्याः कालादयो यत्र तद् योग्य. कालासनस्थानमुद्रावर्तशिरोनति । पुनः किंविशिष्टम् ? अमलं द्वात्रिं. शदोषरहितम् । नित्यदेववन्दनायां त्रैकाल्यपरिमाणमाहतिस्रोऽहोन्या निशश्चाद्या नाड्यो व्यत्यासिताश्च ताः । मध्याह्नस्य च षट्कालास्त्रयोमी नित्यवन्दने ॥ ७९ ॥ भवन्ति । के ? अमी अनन्तरनिर्दिष्टाः कालाः। कति ? त्रयः । क ? नित्यवन्दने । तानेवाह-भवन्ति । काः । नाड्यो घटिकाः । कति ? तिरः। किंविशिष्टाः ? अन्त्याः । कस्य ? अह्नो दिवसस्य । न केवलं, निशश्च रात्रेराद्यास्तिस्रो घटिकाः । एवमपराह्नवन्दनायां घटिकाषट्कमुस्कृष्टः कालः । ताश्च नाड्यो व्यत्यासिता विपर्याय स्थिताः पूर्वाह्नवन्दनायामुत्कर्षतः कालः दिवसस्य प्रथमास्तिस्रो घटिका रात्रेश्च पश्चिमास्तिस्रः। इति घटिकाषकमित्यर्थः । तथा मध्याह्नस्य च मध्यन्दिनस्य नाड्यः षट् । संध्यावन्दनायामुत्कर्षेण कालः । उक्तं च
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org