________________
५९८
'अनगारधर्मामृते
साधोस्तं सहमानस्य निष्कम्पीभूतचेतसः। पतन्ति कर्मजालानि शिथिलीभूय सर्वतः॥ यथाङ्गानि विभिद्यन्ते कायोत्सर्गविधानतः। कर्माण्यपि तथा सद्यः संचितानि तनूभृताम् ॥ यमिनां कुर्वतां भक्त्या तनूत्सर्गमदूषणम् । कर्म निर्जीयते सद्यो भवकोटिभ्रमार्जितम् ॥ नित्यनैमित्तिककर्मकाण्डनिष्ठस्य योगिनः परम्परया निःश्रेयसप्रतिलम्भमभिधत्ते
नित्येनेत्थमथेतरेण दुरितं निर्मूलयन् कर्मणा, योभ्यासेन विपाचयत्यमलयन् ज्ञानं त्रिगुप्तिश्रितः। स प्रोद्भुद्धनिसर्गशुद्धपरमानन्दानुविद्धस्फुर, द्विश्वाकारसमग्रबोधशुभगं कैवल्यमास्तिनुते ॥ ७७ ॥
स योगी आस्तिनुते प्राप्नोति । किं तत् ? कैवल्यं निर्वाणम् । किंविशिष्टम् ? प्रोबुद्धेत्यादि । प्रकर्षणापुनर्भवलक्षणेनोबुद्धोऽभिव्यक्तो निसर्गशुद्धः स्वभावनिर्मलः परमानन्दानुविद्धः परमप्रशान्तिलक्षणप्रमोदेनानुविद्धो द्रव्यान्तरं नेतुमशक्यत्वलक्षणेनाशक्यविवेचनत्वेन व्यतिकीर्णः । स्फुरन्तः प्रकाशमाना विश्वस्य लोकालोकस्याकारा रूपाणि यत्रासौ स्फुरद्विश्वाकारः। समग्रः सर्वद्रव्यपर्यायनिबद्धो बोधः समग्रबोधः । तेन शुभगमत्यन्तरमणीयम् । यः किम् ? यो विपाचयति विपचते प्रयोजयति । किं तत् ? ज्ञानं स्वपरावभासिबोधम् । केन ? अभ्यासेन असकृत्प्रवृत्त्या । अत्र कर्तरि तृतीया । किं कुर्वन् ? अमलयन् निर्मलीकुर्वन्, ज्ञानमेव । कथंभूतो भूत्वा ? त्रिगुप्तिश्रितस्तिस्रो गुप्तीराश्रितः । सम्यग्निगृहीतमनोवाक्कायव्यापार इत्यर्थः। किं कुर्वन् ? निर्मूलयन् मूलादपि निरस्यन् । किं तत् ? दुरितं पापम् । केन ? कर्मणा क्रियया । किंविशिष्टेन ? नित्येन अथे. तरेण नैमित्तिकेन च । कथम् ? इत्थमुक्तन्यायेन । उक्तं च
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत्॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org