________________
अष्टमोऽध्यायः।
५९७
अहोरात्रस्वाध्यायादिविषयकायोत्सर्गसंख्यासंग्रहार्थमाह-- खाध्याये द्वादशेष्टा षड्वन्दनेष्टौ प्रतिक्रमे । कायोत्सगो योगभक्तौ द्वौ चाहोरात्रगोचराः ॥ ७५॥ इष्टा अभिमताः सूरिणा । के ? कायोत्सर्गाः। किंविशिष्टाः ? अहोरात्रगोचरा दिनरात्रिविषयाः । कथम् ? स्वाध्याये द्वादश षड्वन्दने अष्टौ प्रतिक्रमे योगभक्तौ च द्वौ । सर्वे मिलिता अष्टाविंशतिः । एते च विभागेनोत्तरत्र व्यवहरिष्यन्ते ।
कायोत्सर्गे ध्यानविशेषमुपसर्गपरीषहसहनं च नियमयन् कर्मनिर्जरणातिशय फलत्वेनोपदिशति
व्युत्सृज्य दोषान् निःशेषान् सद्ध्यानी स्यात्तनूत्सृतौ । सहेताप्युपसर्गोर्मीन् कर्मैवं भिद्यतेतराम् ॥ ७६ ॥ स्यान्मुमुक्षुः। किंविशिष्टः ? सद्ध्यानी धयं शुक्ल वा ध्यानमाश्रितः । सत् प्रशस्तं ध्यानमतिशयेनास्यास्तीति सद्ध्यानी। क? तनूत्सृतौ कायोलगें । किं कृत्वा ? व्युसृज्य विविधमुत्कृष्टं त्यक्त्वा । कान् ? दोषान् ईर्यापथाद्यतीचारान् कायोत्सर्गमलान्वा । किंविशिष्टान् ? निःशेषान सर्वान् । एतेनालस्याधभाव उक्तः स्यात् । उक्तं च
कायोत्सर्गस्थितो धीमान् मलमीर्यापथाश्रयम् । निशेषं तत्समानीय धर्म्य शुक्लं च चिन्तयेत् ॥ न केवलं सध्यानी स्यान्मुमुक्षुः, सहेतापि क्षमेत च । कान् ? उपसगोरुन् उपसर्गाश्चोर्मयश्च परीषहा उपसर्गोर्मयस्तान् । क ? तनूत्सृतौ । एवं कृते किं फलं स्यादित्याह-भिद्यतेतरां प्रकृष्टं स्वयमेव विश्लेषं याति । किं तत् ? कर्म ज्ञानावरणादिकम् । क सति ? एवमित्थं कृते सति । स्तवाद्यपेक्षया प्रकर्षात्र । उक्तं च--
उपसर्गस्तनूत्सर्ग श्रितस्य यदि जायते । देवमानवतिर्यग्भ्यस्तदा सह्यो मुमुक्षुणा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org