________________
५९६
अनगारधर्मामृते
अध्वा ग्रामान्तरगमनम् । भक्तं गोचारः। अर्हच्छय्या जिनेन्द्रनिर्वाणसमवसृतिकेवलज्ञानोत्पत्तिनिष्क्रमणजन्मभूमिस्थानानि । साधुशय्याः श्रमणनिपिद्धिकास्थानानि । अर्हन्तश्च साधवश्चार्हत्साधवः । तेषां शय्या अर्हत्साधुशय्याः। मूत्रं चोच्चारश्वाध्वा च भक्तं चाहत्साधुशय्याश्च मूत्रोच्चाराध्वभक्ताहत्साधुशय्याः । तासामभिवन्दनमाभिमुख्येन वन्दना मूत्रोच्चाराध्वभक्ता. हत्साधुशय्याभिवन्दनं, तस्मिन् । तथा ते स्युः। कति ? विंशतिः। किंविविशिष्टा ? सप्तयुक। सप्तविंशतिरित्यर्थः । छ ? स्वाध्यायादौ स्वाध्याय आदिर्यस्य ग्रन्थादिप्रारम्भादेरसौ स्वाध्यायादिस्तस्मिन् । स्वाध्याये ग्रन्थादिप्रारब्धग्रन्थादिसमाप्तौ नित्यवन्दनायां मनोविकारे च तत्क्षणोत्पन्ने । उक्तं च
ग्रामान्तरेऽन्नपानेर्हत्साधुशय्यामिवन्दने । प्रस्रावे च तथोच्चारे उच्चासाः पञ्चविंशतिः॥ स्वाध्यायोद्देशनिर्देशे प्रणिधानेथ वन्दने ।
सप्तविंशतिरुच्छ्वासाः कार्योत्सर्गेभिसंमताः॥ उद्देशो ग्रन्थादिप्रारम्भः । निर्देशः प्रारब्धग्रन्थादिसमाप्तिः । प्रणिधानं मनोविकारः अशुभपरिणामस्तत्क्षणोत्पन्न इत्यर्थः । यत्तु
जन्तुघातानृतादत्तमैथुनेषु परिग्रहे ।
अष्टोत्तरशतोच्छ्वासाः कायोत्सर्गाः प्रकीर्तिताः ॥' इति सूत्रे वचस्तञ्चशब्देन समुच्चीयते । व्रतारोपण्यादिप्रतिक्रमणासूच्छाससंख्यानिर्देशार्थमाहया व्रतारोपणी सार्वातीचारिक्यातिचारिकी । औत्तमार्थी प्रतिक्रान्तिः सोच्छासैराह्निकी समा ॥ ७४ ॥ सा भवति । किंविशिष्टा ? आद्विकीसमा आह्निक्या दैवसिक्या प्रतिक्रान्त्या समा तुल्या । कैः ? उच्छ्वासैः । वीरभक्तिकालेऽष्टोत्तरशतो. च्वासकायोत्सर्गे इत्यर्थः । या किम् ? या प्रतिक्रान्तिः। कथंभूता ? व्रतारोपणी । न केवलं, सार्वातीचारिकी । न केवलम्, अतिचारिकी न केवलं औत्तमार्थी च।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org