________________
अष्टमोऽध्यायः।
५९५
~
~
सप्तविंशतिरुवासाः संसारोन्मूलनक्षमे ।
सन्ति पञ्च नमस्कारे नवधा चिन्तिते सति ॥ एतदुच्छासलक्षणं जघन्योत्कृष्टमात्रयोरपि यथासंभवं योज्यम् । देवसिकादिप्रतिक्रमणकायोत्सर्गेपूच्छाससंख्याविशेषनिर्णयार्थमाहउच्छासाः स्युस्तनूत्सर्गे नियमान्ते दिनादिषु । पञ्चस्वष्टशताधेत्रिचतुःपञ्चशतप्रमाः ॥ ७२ ॥ स्युर्भवेयुः । के ? उच्छासाः । क ? तनूत्सर्गे। किंविशिष्टाः ? अष्टशतात्रिचतुःपञ्चशतप्रमाः। केषु ? दिनादिषु दिनरात्रिपक्षचतुर्माससंवत्सरेषु विषयेषु । कतिषु ? पञ्चसु । क? नियमान्ते वीरभक्तिकरणकाले । अष्टाभिरधिकं शतमष्टशतमित्यर्थः । अर्द्ध प्रत्यासत्तेरष्टोत्तशतस्यैव । चतुःपञ्चाशदित्यर्थः । त्रीणि च चत्वारि च पञ्च च त्रिचतुःपञ्च । तानि च तानि शतानि च त्रिचतुःपञ्चशतानि । अष्टशतं चार्धं च त्रिचतुःपञ्चशतानि च अष्टशतार्धत्रिचतुःपञ्चशतानि तान्येव प्रमा प्रमाणं येषामुच्छासानां ते तथोक्ताः । यथासंख्यम् । उक्तं च
आह्निकेष्टशतं रात्रिभवेध पाक्षिके तथा । नियमान्तेस्ति संस्थेयमुच्छ्वासानां शतत्रयम् ॥ चतुःपञ्चशतान्याहुश्चतुर्मासाब्दसंभवे । इत्युच्छासास्तनूत्सर्गे पञ्चस्थानेषु निश्चिताः॥ प्रस्रावादिप्रतिक्रमणास्वईच्छय्यादिवन्दनायां स्वाध्यायादिषु च कायोत्सर्गाच्छाससंख्याविशेषनिश्चयार्थमाह
मूत्रोच्चाराध्वभक्तार्हत्साधुशय्याभिवन्दने । पञ्चाग्रा विंशतिस्तेस्युः स्वाध्यायादौ च सप्तयुक् ॥७३॥
स्युः । के ते ? उच्छ्वासाः कायोत्सर्गविषयाः । कति ? विंशतिः । किंविशिष्टाः ? पश्चाग्रा पञ्च अग्रमुत्तरं यस्याः सा पञ्चाग्रा । पञ्चविंशतिरित्यर्थः ? मूत्रेत्यादि । मूत्रं प्रस्रवणम् । उच्चारः पुरीपोत्सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org