________________
अनगारधर्मामृते
बोसंरिदबाहुजुयलो चतुरंगुलमंतरेण समपादं ।
सव्वंगचलणरहियो काओस्सग्गो विसुद्धो दु॥ सतनूत्सर्ग इति लक्ष्यं मोक्षार्थीत्यादिलक्षणः प्रयोक्ता निषिद्धाभिधाद्याचारात्ययशोधनादिति षोढेति च हेतुविकल्पौ ॥ कायोत्सर्गस्योत्तममध्यमजघन्यपरिणामनिरूपणार्थमाहकायोत्सर्गस्य मात्रान्तर्मुहूर्तोऽल्पा समोत्तमा । शेषा गाथात्र्यंशचिन्तात्मोच्छ्वास कथा मिता ॥७१ ॥ मिता परिमिता पूर्वाचार्यैः । कासौ ? मात्रा परिमाणम् । कस्य ? कायोत्सर्गस्य । कीडशी? अल्पा जघन्या । कियन्मात्रा ? अन्तमुहूर्तः समयाधिकामावलिकामादिं कृत्वा समयोनमुहूर्त यावत्काल: तथा कायोत्सर्गस्य मात्रा उत्तमा उत्कृष्टा मिता । कियन्मात्रा ? समा वर्षम् । तथा कायोत्सर्गस्य मात्रा शेषा अन्तर्मुहूर्ता वर्षाभ्यामुद्धरिता मध्यमामिता। कतिधा ? नेकधा द्विमुहूर्तप्रहरदिवसाद्यपेक्षया कार्यकाल. द्रव्यक्षेत्रभावाद्यपेक्षया वाऽनेकप्रकारा । यदाह
अस्ति वर्ष समुत्कृष्टो जघन्योन्तर्मुहूर्तगः। कायोत्सर्गः पुनः शेषा अनेकस्थानगा मताः॥ कैः ? गाथाध्यंशचिन्तात्मोच्छ्वासैः गाथाया णमो अरहंताणं' इत्यादिकायाःत्र्यंशस्त्रिभागो द्वे द्वे एकं च नमस्कारपदं गाथात्र्यंशः । तस्य चिन्ता चिन्तनं गाथाञ्यंशचिन्ता। सा आत्मा स्वरूपं येषां ते गाथात्र्यंशचिन्तात्मानः। ते च उच्छ्वासाश्च प्राणवायोर्गमागमा गाथाव्यंशचिन्तात्मोच्छ्वासास्तैः । तत्र 'णमो अरहंताणं, णमो सिद्धाणं' इति पदवयचिन्तनमेक उच्छासः । एवं 'णमो आइरियाणं, णमो उवज्झायाणं इति चिन्तनं द्वितीयः । तथा णमो लोए, सव्वसाहणं' इति चिन्तनं तृती. यः । एवं गाथायास्त्रिधा चिन्तने त्रय उच्छासाः स्युः। नवधा चिन्तने सप्तविंशतिः । इत्यादिकल्पनया परिगणनीयम् । उक्तं च
१ यः सारितबाहुयुगलश्चतुरङ्गुलमन्तरेण समपादः । सर्वागचलनरहितः कायोत्सर्गो विशुद्धस्तु ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org