________________
अष्टमोऽध्यायः।
५९३
आगःशुद्धितपोवृद्धिकर्मनिर्जरणादयः। कायोत्सर्गस्य विज्ञेया हेतवो व्रतवर्तिना ॥ षोढेति नामादिभेदेन षट्प्रकारः । तथा हि-सावधनामकरणागतदोषविशुद्ध्यर्थ कायोत्सर्गों नामकायोत्सर्गः कायोत्सर्गनाममात्रं वा । पापस्थापनाद्वारागतदोषोच्छेदाप कायोत्सर्गः स्थापनाकायोत्सर्गः कायोत्सर्गपरिणतप्रतिबिम्धं वा । सावद्यद्रव्यसेवनद्वारेणागतातीचारनिहरणाय कायोत्सर्गः कायोत्सर्गव्यावर्णणीयप्राभृतज्ञोनुपयुक्तस्तच्छरीरं भाविजीवस्तद्व्यतिरिक्तो वा द्रव्यकायोत्सर्गः । सावद्यक्षेत्रद्वारागतदोषध्वंसनाय कायोत्सर्गः कायोत्सर्गपरिणतक्षेत्रं वा क्षेत्रकायोत्सर्गः । सावद्यकालाचरणद्वारागतदोपपरिहाराय कायोत्सर्गः कायोत्सर्गपरिगतसहितकालो वा कालकायोत्सर्गः । मिथ्यात्वाद्यतीचारशोधनाय कायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञ उपयुक्तस्तज्ज्ञानं जीवप्रदेशा वा भावकायोत्सर्ग इति । यत्किम् ? यदास्ते तिष्ठत्येव स्थानं करोति । कोसौ ? मोक्षार्थित्वादि विशेषणविशिष्टः शुद्धात्मा असंयतसम्यग्दृष्ट्यादिभव्यः । कथं कृत्वा ? अवलं निश्चलपादहस्ताघरभ्रूनेत्रादिसर्वाङ्गम् । किंविशिष्टः ? मोक्षार्थी मुक्तिमिच्छन् । तथा जितनिद्रको निद्राजययुक्तः । तथा सुकरणः शोभनं करणं क्रिया परिणामो वा यस्य स एवम् । तथा सूत्रार्थविद् आगमार्थज्ञः । तथा वीर्यवान् नैसर्गिकशक्तियुक्तः । तथा बलवान् आहारादिजन्यशक्तियुक्तः। उक्तं च
मोक्षार्थी जितनिद्रो हि सूत्रार्थज्ञः शुभक्रियः।
बलवीर्ययुतः कायोत्सर्गी भावविशुद्धिभाक् ॥ तथा प्रलम्बितभुजायुग्मः प्रलम्बितं प्रशस्तधिोनीतं भुजायुग्मं बाहुयुगलं येन स तथोक्तः । तथा ऊर्ध्वजुरूर्वजानुः । ऊवं परलोकं जानानश्च । तथा चतुरङ्गुलान्तरसमानांघ्रिः। चत्वार्यङ्गुलानि अन्तरमन्तरालं ययोस्तौ चतुरमुलान्तरौ सममविषममग्रोऽग्रभागो ययोस्तो समाग्रौ । चतुरङ्गुलान्तरौ च तो समानौ च चतुरङ्गुलान्तरसमानौ । तथाभूतावंत्री पादौ यस्य स एवम् । उक्तं च
अन० ध० ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org