SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते— गुरोर्वचोनुभाष्यं चेच्छुद्धं स्वरपदादिना । प्रत्याख्यानं तथाभूतमनुवादामलं भवेत् ॥ श्रमातङ्कोपसर्गेषु दुर्भिक्षे काननेपि वा । प्रपालितं न यद्भग्नमनुपालनयाऽमलम् ॥ रागद्वेषद्वयेनान्तर्यद्भवेन्नैव दूषितम् । विज्ञेयं भावशुद्धं तत् प्रत्याख्यानं जिनागमे ॥ ५९२ क्षिप्यतेऽपकृष्यते देहेन्द्रियादिकमशुभकर्म वानेनेति क्षपणमिहोपवासादिप्रत्याख्यानमाख्यायते । अथ सप्तभिः पचैः कायोत्सर्गे व्याचिख्यासुस्तल्लक्षणप्रयोक्तृ हेतु विकल्पनिर्णयार्थमिदमादौ निर्दिशति - मोक्षार्थी जितनिद्रकः सुकरणः सूत्रार्थविद्वीर्यवान्, शुद्धात्मा बलवान् प्रलम्बितभुजायुग्मो यदास्तेऽचलम् । ऊर्ध्वज्ञुचतुरङ्गुलान्तरसमाग्रांत्रिर्निषिद्धाभिधा, - द्याचारात्ययशोधनादिह तनूत्सर्गः स षोढा मतः ॥ ७० ॥ इहावश्यकप्रकरणे स मोक्षार्थित्वादिगुणस्य प्रलम्बितभुजायुग्माद्यवस्थानलक्षणस्तनूत्सर्गः कायोत्सर्गः मतः इष्टः सूरिभिः । तनोः कायस्य तात्स्थ्यात्तनु ममत्वस्योत्सर्गस्त्यागस्तनूत्सर्गः । उक्तं च ममत्वमेव कायस्थं तात्स्थ्यात् कायोऽभिधीयते । तस्योत्सर्ग स्तनूत्सर्गो जिनबिम्बाकृतेर्यतेः ॥ कतिधा मतः ? षोढा षट्प्रकारः । कस्माद्धेतोः ? निषिद्धाभिधाद्याचारात्ययशोधनात् खरपरुषादिनाममावद्यस्थापनाद्यनुष्ठान जातातिचारशुद्धिहेतोः । अभिधा अभिधानं नाम आदिर्येषां तेऽभिवादयो नामस्थापनाद्रव्यक्षेत्रकालभावाः । निषिद्धा सूत्रे प्रतिषिद्धा अभिवादयो निषिद्धाभिधादयः । तेषामाचारोनुष्ठान करणं निषिद्धाभिधाद्याचारः । तस्माजाता अत्यया अतीचारा निषिद्धाभिधाद्याचारात्ययाः । तेषां शोधनं शुद्धिरपनयनं, तस्मात् । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy