________________
अष्टमोऽध्यायः।
५९१
अनागतादिदशभिद् विनयादिचतुष्कयुक् । क्षपणं मोक्षुणा कार्य यथाशक्ति यथागमम् ॥ ६९ ॥ कार्य कर्तव्यम् । किं तत् ? क्षपणम् । केन ? मोक्षुणा मुमुक्षुणा । किंविशिष्टम् ? अनागतादिदशभित् । पुनः किंविशिष्टम् ? विनयादिचतुष्कयुक । कथम् ? यथाशक्ति स्वबलवीर्यानतिक्रमेण । कथम् ? यथागममाम्नायानतिक्रमेण । इतो विस्तरः-अनागतादयो दश संख्या भिदो भेदा यस्य तदऽनागतादिदशभित् । ताश्च । यथा
अनागतमतिक्रान्तं कोटीयुतमखण्डितम् । साकारं च निराकारं परिमाणं तथेतरत् ॥ नवमं वर्तनीयातं दशमं स्यात् सहेतुकम् । प्रत्याख्यानविकल्पोयमेवं सूत्रे निरुच्यते ॥ (१) अनागतं चतुर्दश्यादिषु कर्तव्यमुपवासादिकं यत्रयोदश्यादिषु क्रियते । (२) अतिक्रान्त चतुर्दश्यादिषु कर्तव्यमुपवासादिकं यत्प्रतिपदादिषु क्रियते । (३) कोटीयुतं श्वस्तने दिने दिने स्वाध्यायवेलायामतिक्रान्तायां यदि शक्तिर्भविष्यति तदोपवासं करिष्यामि, नो चेन्न करिष्यामीत्यादि संकल्प्य समन्वितं यत्क्रियते। (४) अखण्डितमवश्यकर्तव्यपा. क्षिकादिपूपवासकरणम् । (५) साकारं सर्वतोभद्रकनकावल्याधुपवासविधिभेदसहितम् । (६)निराकारं स्वेच्छयोपवासादिकरणम् । (७) परिमाणं षष्ठाष्टमादिकालपरिच्छेदेनोपवासादिकरणम् । परिमाणविषयत्वात्तथोक्तम् । (८) इतरद् यावजीवं चतुर्विधाहारादित्यागोऽपरिशेषमित्युच्यते (९) वर्तनीयातमध्वगतं नाम अटवीनद्यादिषु निष्क्रमणद्वारेणोपवासादिकरणम् । (१०) सहेतुकमुपसर्गादिनिमित्तापेक्षमुपवासादिकरणम् । विनयादीनां चतुष्का विनयादिचतुष्कम् । तद् युनक्त्यात्मना शुद्धतया संबध्नातीति विनयादिचतुष्कयुक् । विनयादिचतुष्टयविशुद्धमित्यर्थः । यथाह
कृतिकर्मोपचारश्च विनयो मोक्षवम॑नि । पञ्चधा विनयाच्छुद्धं प्रत्याख्यानमिदं भवेत् ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org