________________
५९०
अनगारधर्मामृते
माधुपयोगपूतस्वान्तः। योगाय शुद्धोपयोगाय प्रभवन्तीति योग्याः । ते च ते नामादयो नामस्थापनाद्रव्यक्षेत्रकालभावाः। तेषामुपयोगः सेवनन् । तेन पूतं पवित्रीकृतं स्वान्तं मनो येन एवम् ।
द्रव्यप्रत्याख्यानविशेष व्यवहारोपयोगितया प्रपञ्चयन् प्रत्याख्येयविशेष प्रत्याख्यातारं च लक्षयति
सावधेतरसञ्चित्ताचित्तमिश्रोपधींस्त्यजेत् । चतुर्धाहारमप्यादिमध्यान्तेष्वाज्ञयोत्सुकः ॥६८ ॥ त्यजेत् प्रत्याचक्षीत । कोसौ ? साधुः । कान् ? सावद्येतरसचित्ताचित्तमिश्रोपधीन् । न केवलं, चतुर्धाहारं चतुर्विधमपि भोजनम् । अपिरनुक्तसमुच्चये । तेन त्रिविधाहारादिमपि त्यजेदित्यर्थः । किविशिष्टः सन् ? उत्सुक उपयुक्तः । कया ? आज्ञया अहंदाज्ञया गुरुनियोगेन च । अहंदाज्ञागुरुनियोगयोरुपयुक्तो जिनमतं श्रद्दधत् । गुरूक्तेन प्रत्याचक्षाण इत्यर्थः । अत्राज्ञासामान्यादहदाज्ञा गुरुनियोगश्च द्वयं ग्राह्यम् । क ? आदिमध्यान्तेषु । आदौ प्रत्याख्यानग्रहणकाले मध्ये मध्यकाले अन्ते समाप्तौ चेत्यर्थः । सञ्चित्तो विद्यमानजीवः । अचित्तोऽविद्यमानजीवः । मिश्रश्चिदचिद्रूपः । सहावयेन हिंसादिना वर्तते इति सावद्यः । इतरो निर. वद्यः । सञ्चित्तश्चाचित्तश्च मिश्रश्व सच्चित्ताचित्तमिश्राः । सावद्याश्वेतरे च सावयेतराः। ते च ते सचित्ताचित्तमिश्राश्च सावद्येतरसञ्चित्ताचित्तमिश्राः । ते च ते उपधयः परिग्रहाश्च सावद्येतरसञ्चित्ताचित्तमिश्रोपधयस्तान् । त्यजेदिति प्रत्याख्यानोक्तिः । उपध्याहारौ तु प्रत्याख्येयौ । उक्तं च
आशाज्ञापनयोर्दक्ष आदिमध्यावसानतः । साकारमनाकारं च सुसंतोषोनुपालयन् ॥ प्रत्याख्याता भवेदेष प्रत्याख्यानं तु वर्जनम्।
उपयोगि तथाहारः प्रत्याख्येयं तदुच्यते ॥ बहुविकल्पमुपवासादिप्रत्याख्यानं मुमुक्षोः शक्त्यनतिक्रमेणावश्यकर्तव्यतयोपदिशति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org