SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। ५८९ भोजयितव्यं नानुमन्तव्यम्। इति द्रव्यप्रत्याख्यानमथवा प्रत्याख्यानप्राभृतज्ञानुपयुक्तस्तच्छरीरं भाविजीवस्तब्यतिरिक्कं च तत्स्यात् । असंयमादिहेतु. भूतस्य क्षेत्रस्य त्यजनं त्याजनं त्यज्यमानस्यानुमोदनं च क्षेत्रप्रत्याख्यानं प्रत्याख्यानसेवितप्रदेशो वा । असंयमादिनिमित्तस्य कालस्य त्यजनादिकं कालप्रत्याख्यानं प्रत्याख्यानपरिणतेन सेवितः कालो वा । मिथ्यात्वादीनां मनोवाकायैस्त्यजनादिक भावप्रत्याख्यानम् । अथवा प्रत्याख्यानप्राभृतज्ञायकस्तद्विज्ञानं जीवप्रदेशा वेति । किं च, भविष्यद्वर्तमानकालविषयातीचारनिर्हरणं प्रत्याख्यानमित्याचारटीकाकारेण यत्प्रत्याख्यानलक्षणमाख्यायि तदपि 'निरोद्धमार्ग' इति सामान्यनिर्देशादिह संगृहीतमुन्नेयम् । एतदेव संगृह्णन्नाहतनाम स्थापनां तां तद्रव्यं तत्क्षेत्रमञ्जसा । तं कालं तं च भावं न श्रयेन श्रेयसेस्ति यत् ॥ ६६ ॥ तन्नाम तां स्थापनां तद्व्यं तत्क्षेत्रं तं कालं तं भावं च न श्रयेन सेवेत मुमुक्षुरञ्जसा परमार्थेन । भावेनेत्यर्थः । यत्किम् ? यन्नास्ति । कस्सै ? श्रेयसे शिवाय । अञ्जसेत्यनेनोपसर्गादिवशादयोग्यश्रयणेपि न प्रत्याख्यानहानिरिति बोधयति । ____ योग्यनामादिसेविनः परम्परया रत्नत्रयाराधकत्वमवश्यंतया प्रका. शयनाहयो योग्यनामाधुपयोगपूतस्वान्तः पृथक् स्वान्तमुपैति मूर्तेः। सदाऽ स्पृशन्नप्यपराधगन्धमाराधयत्येव स वम मुक्तेः ॥६७॥ स साधुराराधयत्येव अवश्यं भजति । किं तत् ? वर्त्म मार्गम् । कस्याः? मुक्तेर्मोक्षस्य । किं कुर्वन् ? सदा नित्यमस्पृशन्नपरामृशन् । कम् ? अपराधगन्धमपि । राधः संसिद्धिः । स्वास्मोपलब्धिरित्यर्थः । अपगतो राधोऽपराधः परद्रव्यग्रहः । तस्य गन्धमपि । प्रमादलेशमपीत्यर्थः। यः किम् ? य उपैति स्वीकरोति । कम् ? स्वान्तमात्मस्वरूपम् । कथम् ? पृथग् भिन्नम् । कस्याः ? मूर्तेः शरीरात् । किंविशिष्टः सन् ? योग्यना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy