________________
५८८
अनगारधर्मामृते
तथा यथोक्तं कर्म उद्यद्विपच्यमानं स्वादात्मनोऽत्यन्तभिदा अत्यन्तभेदेन चेतये उपलभेहम् । तथा यथोक्तं कर्म उत्तरमाश्रोष्यद्गुन्धे निरन्धेहम् । नित्यप्रवृत्तवर्तमानस्य विवक्षितत्वान्नित्यं क्षिपे । यद्यथोक्तं कर्म नित्यं चेतये नित्यं च रुन्धे इति नित्यमिति विशेषणेन विशेष्टव्यम् । ततश्च किं करोमी. त्याह । अहमेवाहमित्यादि । भजे सेवे भावयाम्यहम् । किं तत् ? ज्ञानम् । कथम् ? अहमेवाहमित्येव, न शरीरादिकम् । किमर्थम् ? तच्छुद्धये ज्ञानशुद्ध्यर्थम् । तथा वर्जये प्रत्याचक्षेहम् । किं तत् ? अज्ञानम् । कथम् ? शरीराधहमित्येव शरीरादि परद्रव्यमहमस्मि, न ज्ञानमित्येव । किं विशिष्टम् ? तच्छेत्तु ज्ञानशुद्धिच्छेदनशीलम् । एतच्च विस्तरेण ठकुरामृतचन्द्रविरचितसमयसारटीकायां द्रष्टव्यम् ।
भथ पञ्चभिः पद्यैः प्रत्याख्यानं व्याख्यातुकामो नामादिषड्विधनिक्षेपविभक्तं तत्तावल्लक्षयबाहनिरोद्धमागो यन्मार्गच्छिदो निर्मोक्षुरुज्झति । नामादीन् षडपि त्रेधा तत्प्रत्याख्यानमामनेत् ॥ ६५ ॥ आमनेत् कथयेदाचार्यः । किं तत् ? तयोग्यनामाधुज्झनलक्षणं प्रत्याख्यानम् । यत्किम् ? यन्निर्मोक्षुर्मोक्षार्थी उज्झति त्यजति । कान् ? नामादीन् नामस्थापनादीन् । किंविशिष्टान् ? मार्गच्छिदो रनत्रयविरोधिनः । कियतः ? षडपि । कथम् ? त्रेधा मनोवाकायैः । किं कर्तुम् ? निरोद्धं निवारयितुम् । किं तत् ? आगः पापम् । उक्तं च
नामादीनामयोग्यानां षण्णां त्रेधा विवर्जनम् ।
प्रत्याख्यान समाख्यातमागम्यागोनिषिद्धये ॥ तथाहि-अयोग्यानि पापकारणानि नामानि न कर्तव्यानि न कारयितव्यानि नानुमन्तव्यानि इति नामप्रत्याख्यानं प्रत्याख्याननाममात्रं वा । तथा पापबन्धहेतुभूता मिथ्यात्वादिप्रवर्तिका मिथ्यादेवतादिस्थापनाः । पापकारणद्रव्यप्रतिरूपाणि च न कर्तव्यानि न कारयितव्यानि नानुमन्तव्यानि । इति स्थापनाप्रत्याख्यानं प्रत्याख्यानपरिणतप्रतिबिम्बं वा । सद्भावरूपं तरस्यात् । पापार्थ सावयं द्रव्यं निरवद्यमपि च तपोथं त्यक्तं न भोज्यं न
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org