________________
अष्टमोऽध्यायः।
णिच्चं पञ्चक्खाणं कुव्वा णिचं च पडिक्कमइ जो य । णिश्चं आलोचेश्य सो हु चरित्तं हवइ चेया॥ इयं चान्न भावार्थसंग्रहकारिका नित्यमध्येतव्याज्ञानस्य संचेतनयैव नित्यं, प्रकाशते ज्ञानमतीव शुद्धम् । अज्ञानसंचेतनया तु धावन् बोधस्य शुद्धिं निरुणद्धि बन्धः ॥ इमे चोकार्थसंग्रहश्लोका नित्यं भावनीयाः
सर्वथात्तं प्रतिक्रामन्नुद्यदालोचयन् सदा । प्रत्याख्यान् भाविसदसत्कर्मात्मा वृत्तमस्ति चित् ॥१॥ नैष्फल्याय क्षिपे त्रेधा कृतकारितसंमतम् । कर्म स्वाञ्चेतयेऽत्यन्तभिदोद्यद्रुन्ध उत्तरम् ॥ २॥ अहमेवाहमित्येव ज्ञानं तच्छुद्धये भजे । शरीराद्यहमित्येवाशानं तच्छेतृ वर्जये ॥३॥ अथैते मन्दमतिसुखप्रतिपत्त्यर्थं वित्रियन्ते । तद्यथा,सदसत्कर्म सच्छुभं कर्म सद्वद्यशुभायुर्नामगोत्रलक्षणं पुण्यमसञ्चाशुभं ज्ञानावरणादिलक्षणं पापं सर्वथा सर्वेण समस्तव्यस्तकरणक्रियावर्तनलक्षणेन प्रकारेण आत्तं योगकषायवशाजीवेन गृहीतं बद्धं सदा नित्यं प्रतिक्रामन् 'मिथ्या मे दुष्कृतम्' इत्याधुपायैरुदयाप्राप्तानामेव निराकुर्वन् चित् चिन्मात्रमात्माहंप्रत्ययसंवेद्यो वृत्तं चारित्रमस्मि । स्वस्मिन्नेवाखण्डज्ञानस्वभावे निरन्तरचरणाचारित्रं भवाम्यहमित्यर्थः । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनारस्वयमेव ज्ञानचेतना भवामीति भावः । तथा यथोकं कर्म उद्यद्विपच्यमानं सदाऽऽलोचयन्नात्मनोत्यन्तभेदेनोपलभमानचिन्मात्रमात्माचारित्रमस्मि । स्वस्मिन्नेवेत्यादि भाव इत्यन्तमत्रापि योज्यम् । तथा यथोक्तं भावि भविष्यत्कर्म नित्यं प्रत्याख्यान् प्रत्याचक्षाण आश्रोष्यन् निरुन्धानश्चिन्मात्रमात्मा चारित्रमस्मि । स्वस्मिन्नेवेत्यादि भाव इत्यन्तमत्रापि च योज्यम्। तदेव विस्पष्टयवाह-नैष्फल्यायेत्यादि । त्रेधा मनसा च वाचा च कायेन च । उपलक्षणादेकशो द्विशो वा । कृतकारितसंमतं कृतं वा कारितं वानुमतं वा शुभाशुभं कर्म नैष्फल्याय फलाभावाय क्षिपे प्रतिक्रमाम्यहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org