________________
५८६
अनगारधर्मामृते
तत्फलं ज्ञानावरणादिकर्मफलं व्युत्सृजेद्विविधमुत्कृष्टं त्यजेत् । तथा हि-नाहं मतिज्ञानावरणीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतवे । एवं नाहं श्रुतज्ञानावरणीयफलं, नाहमवधिज्ञानावरणीयफलं, इत्यादि समस्तकर्मप्रकृतिष्वावर्तनीयम् । यथाह
विगलन्तु कर्मविषतरुफलानि मम भक्तिमन्तरेणैव । संचेतयेऽहमचलं चैतन्यात्मानमात्मानम् ॥ अपि च,
निःशेषकर्मफलसंन्यसनान्ममैवं, सर्वक्रियान्तरविहारनिवृत्तिवृत्तेः। चैतन्यलक्ष्म भजतो भृशमात्मतत्त्वं, कालावलीयमचलस्य वहत्वनन्ता । यः पूर्वभावकृतकर्मविषद्रुमाणां, भुङ्क्ते फलानि न खल स्वत एव तृप्तः। आपातकालरमणीयमुदरम्यं, निष्कर्मशर्ममयमेति दशान्तरं सः॥ अत्यन्तं भावयित्वा विरतिमविरतं कर्मणस्तत्फलाच, प्रस्पष्टं नाटयित्वा प्रलयनमखिलाशानसंचेतनायाः। पूर्ण कृत्वा स्वभावं स्वरसपरिगतं ज्ञानसंचेतनां स्वां,
सानन्दं नाटयन्तः प्रसमरसमितः सर्वकालं पिबन्तु ॥ उक्तं चकर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम्।
आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् ॥ तथा चोक्तं समयसारे
कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं । तं दोसं जो चेयइ सो खलु आलोयणं चेया ॥ १ कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषम् ।
तदोषं यःचेतयति स खलु आलोचनं चेता॥ नित्यं प्रत्याख्यानं करोति नित्यं च प्रतिक्रामति यश्च । नित्यमालोचयति च स खलु चारित्रं भवति चेतयिता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org