________________
अष्टमोऽध्यायः।
भूतकर्मणां पूर्वोपार्जितशुभाशुभकर्मविपाकभवेभ्यो भावेभ्यः स्वात्मानं विनिवात्मना तत्करणभूतप्राक्तनकर्मनिवर्तनम् । आलोचनं सत्कर्मणां वर्तमानशुभाशुभकर्मविपाकानामात्मनोत्यन्तभेदेनोपलम्भनम् । प्रत्याख्यानं भाविकर्मणां शुभाशुभस्वपरिणामनिमित्तोत्तरकर्मनिरोधनम् । भूता'दिकर्मणां प्रतिक्रमणादिकं कृत्वा तत्फलं सुधीयुत्सृजेदिति संबन्धः । तथाहि-'यदहमकार्ष यदचीकरं यत्कुर्वन्तमप्यन्यं समन्वज्ञासं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतम्' इत्येवं समस्तव्यस्तैः करणैरेकाअपञ्चाशता क्रियापदैश्चावर्तनीयम् । यथाह
कृतकारितानुमननैस्त्रिकालविषयं मनोवचःकायैः । परिहृत्त्य कर्म सर्व परमं नैष्कर्म्यमवलम्बे ॥ अपि चमोहाद्यदहमकार्ष समस्तमपि कर्म तत्प्रतिक्रम्य ।
आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥ तथा न करोमि, न कारयामि, न कुर्वन्तमप्यन्यं समनुजानामि, मनसा च वाचा च कायेन च इत्यादिपूर्ववत् समस्तव्यस्तैः करणैरेकानपञ्चाशता क्रियापदैश्चावर्तनीयमित्यर्थः । यथाह
मोहविलासविजृम्भितमिदमुदयत् कर्म सकलमालोच्य ।
आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते ॥ तथा न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा च वाचा च कायेन चेत्यादि पूर्ववत् समस्तव्यस्तैः करणैरेकानपञ्चाशता क्रियापदैरावर्तनीयमित्यर्थः । यथाह
प्रत्याख्याय भविष्यत्कर्म समस्तं निरस्तसंमोहः।
आत्मनि चैतन्यात्मनि निष्कर्मणि नित्यमात्मना वर्ते॥ एवं चेदमभ्यसनीयम्
समस्तमित्येवमपास्य कर्म त्रैकालिकं शुद्धनयावलम्बी। विलीनमोहो रहितं विकारैश्चिन्मात्रमात्मानमथावलम्बे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org